________________
પતંજલિનાં યોગસૂત્રો
[५. १ सू. १
સમાધિ કહે છે. ૧
तत्त्व वैशारदी नमामि जगदुत्पत्तिहेतवे वृषकेतवे । क्लेशकर्मविपाकादिरहिताय हिताय च ॥१॥ नत्वा पतञ्जलिमृर्षि वेदव्यासेन भाषिते ।।
संक्षिप्तस्पष्टबह्वर्था भाष्ये व्याख्या विधीयते ॥२॥ इह हि भगवान्पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य संक्षेपतस्तात्पर्यार्थं प्रेक्षावत्प्रवृत्त्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादाविदं सूत्रं रचयाञ्चकार-अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं व्याचष्टे- अथेत्ययमधिकारार्थः । 'अथैषज्योति'रितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति हि शास्त्रमाहअनुशिष्यतेऽनेनेति व्युत्पत्त्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाम्नायते-तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत् (बृ. ४।४।२३) इति । शिष्यप्रश्नतपश्चरणरसायनाधुपयोगानन्तर्यस्य च संभवेऽपि नाभिधानम् । शिष्यप्रतीतिप्रवृत्त्योरनुपयोगात्प्रामाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वादप्रामाणिकत्वे च तद्भावेऽपि हेयत्वात् ॥ एतेन तत्त्वज्ञानचिख्यापयिषयोर नन्तर्याभिधानं परास्तम् ॥ अधिकारार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रवतितश्च भवतीति । निःश्रेयसस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् । ननु किं सर्वसंदर्भगतोऽथशब्दोऽधिकारार्थः, तथा सत्यथातो ब्रह्मजिज्ञासा' (ब्र.सू. १।१।१) इत्यादावपि प्रसङ्ग इत्यत आह अयमिति। ननु- "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्रकर्तृत्वमित्याशङ्कय सूत्रकारेणानुशासनमित्युक्तम् । शिष्टस्यानुशासनं न तु शासनमित्यर्थः । यदायमथशब्दोऽधिकारार्थस्तदैष वाक्यार्थः संपद्यत इत्याह - योगानुशासनं शास्त्रमधिकृतमिति । ननु व्युत्पाद्यमानतया योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह-वेदितव्यमिति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः । स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्युत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्रव्यापारगोचरतया तु योग एवाधिकृत इति भावः । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानोदकुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् । शब्दसंदेहनिमित्तमर्थसंदेहमपनयति-योगः समाधिरिति । युज् समाधौ (धा.पा. ४।६७)