________________
३२० ]
પતંજલિનાં યોગસૂત્રો
[पा. सू. १७
વાચક છે, અને જ્ઞાનને પણ વ્યક્ત કરે છે. કેવી રીતે ? એ આ જ છે, એવા સંબંધને કારણે સંકેત અને જ્ઞાન એકાકાર જણાય છે. આમ જે શ્વેત પદાર્થ છે, એ શબ્દનું અને જ્ઞાનનું આલંબન છે. પદાર્થ પોતાની અવસ્થાઓમાં ફેરફાર પામે છે, તેથી શબ્દ કે જ્ઞાન સાથે રહેતો નથી. આવો શબ્દ અને આવું જ્ઞાન સાથે રહેતાં નથી. આ કારણે શબ્દ જુદો છે, અર્થ જુદો છે, અને જ્ઞાન જુદું છે, એમ સમજવું એ એમનો વિભાગ છે. એમના આવા વિભાગપર સંયમ કરવાથી બધાં પ્રાણીઓના અવાજનું જ્ઞાન થાય છે. (जवाभेथी तेजो शुं उहे छे, जे समभय छे.) १७
तत्त्व वैशारदी
अयमपरः संयमस्य विषय उपक्षिप्यते - शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् । अत्र वाचकं शब्दमाचिख्यासुः प्रथमं तावद्वाग्व्यापारविषयमाह - तत्रेति । वाग्वागिन्द्रयं वर्णव्यञ्जकमष्टस्थानम् । यथाहअष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ (पाणिनीय शिक्षा १३)
इति । सा वाग्वर्णेष्वेव यथालोकप्रतीतिसिद्धेष्वर्थवती न वाचक इत्यर्थः । श्रोत्र व्यापारविषयं निरूपयति- श्रोत्रं पुनर्ध्वनेरुदानस्य वागिन्द्रियाभिघातिनो यः परिणतिभेदो वर्णात्मा तेनाकारेण परिणततन्मात्रविषयं न तु वाचकविषयमित्यर्थः । यथा लोकप्रतीतिसिद्धेभ्यो वर्णेभ्यो वाचकं भिनत्ति पदं पुनर्वाचकं नादानुसंहारबुद्धिनिर्ग्राह्यं यथाप्रतीतिसिद्धान्नादान्वर्णान्प्रत्येकं गृहीत्वानुपश्चाद्या संहरत्येकत्वमापादयति गौरित्येतदेकं पदमिति तया पदं गृह्यते । यद्यपि प्राच्योऽपि बुद्धयो वर्णाकारं पदमेव प्रत्येकं गोचरयन्ति, तथापि न विशदं प्रथते । चरमे विज्ञाने तदतिविशदमिति नादानुसंहार-बुद्धिनिर्ग्राह्यमुक्तम् ।
यस्तु वैजात्यादेकपदानुभवमविज्ञाय वर्णानेव वाचकानातिष्ठते तं प्रत्याहवर्णा इति । ते खल्वमी वर्णाः प्रत्येकं वाच्यविषयां धियमादधीरन्नागदन्तका इव शिक्यावलम्बनं, संहता वा ग्रावाण इव पिठरधारणम् । न तावत्प्रथमः कल्पः । एकस्मादर्थप्रतीतेरनुत्पत्तेः । उत्पत्तौ वा द्वितीयादीनामनुच्चारणप्रसङ्गः । निष्पादितकिये कर्मणि विशेषानाधायिनः साधनस्य साधनन्यायातिपातात् । तस्माद् द्वितीयः परिशिष्यते । संभवति हि ग्राव्णां संहतानां पिठरधारणमेकसमयभावित्वात् । वर्णानां तु यौगपद्यासंभवः। अतः परस्परमनुग्राह्यानुग्राहकत्वायोगात्संभूयापि नार्थघियमादधते ।