________________
પ. ૩ સૂ. ૧૪] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વશારદી [૩૦૫
तत्र- मां
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
ભૂત, વર્તમાન અને ભવિષ્યકાલીન ધર્મોમાં અનુગત રહેનાર ધર્મી छ. १४
__भाष्य योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च फलप्रसवभेदानुमितसद्भाव एकस्यान्योऽन्यश्च परिदृष्टः । तत्र वर्तमानः स्वव्यापारमनुभवन्धर्मो धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्येत । तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्याश्चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः । सव्यापारा उदिताः, ते चानागतस्य लक्षणस्य समनन्तराः । वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः ? पूर्वपश्चिमताया अभावात् । यथानागतवर्तमानयोः पूर्वपश्चिमता, नैवमतीतस्य । तस्मानातीतस्यास्ति समनन्तरः । तदनागत एव समनन्तरो भवति वर्तमानस्येति ।
___अथाव्यपदेश्याः के ? सर्वं सर्वात्मकमिति । यत्रोक्तम्- जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम्, तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्वित्येवं जात्यनुच्छेदेन सर्वं सर्वात्मकमिति ।
देशकालाकारनिमित्तापबन्धान्न खलु समानकालमात्मनामभिव्यक्तिरिति । य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेष्वनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी । यस्य तु धर्ममात्रमेवेदं निरन्वयं तस्य भोगाभावः। कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत्कथं भोक्तृत्वेनाधिक्रियेत । तत्स्मृत्यभावश्च, नान्यदृष्टस्य स्मरणमन्यस्यास्तीति । वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वमभ्यपगतः प्रत्यभिज्ञायते । तस्मानेदं धर्ममात्रं निरन्वयमिति ॥१४॥
ધર્મીની યોગ્યતારૂપ શક્તિ ધર્મ છે. એનું અસ્તિત્ત્વ ફળની ઉત્પત્તિના ભેદથી સૂચવાય છે, અને એક ધર્મીમાં જુદા જુદા રૂપે રહેલો જણાય છે.