________________
પા. ૨ સૂ. ૩૦] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૨૪૧
दित्यर्थः । तत्सिद्धिपरतयैवानुष्ठानम् । अहिंसा चेन्मूलमुत्तरेषां कथं तेऽहिंसासिद्धिपरा इत्यत आह-तत्प्रतिपादनायेति । सिद्धिर्ज्ञानोत्पत्तिरित्यर्थः । स्यादेतत्-अहिंसाज्ञानार्था यद्युत्तरे कृतं तैरन्यत एव तदवगमादित्यत आह-तदवदातेति । यद्युत्तरे नानुष्ठीयेरनहिंसा मलिना स्यादसत्यादिभिरित्यर्थः । अत्रैवागमिकानां संमतिमाह-तथा चेति । सुगमम् ।
सत्यलक्षणमाह-यथार्थे वाङ्मनसे इति । यथाशब्दं साकाङक्षं पूरयति यथा दृष्टमिति । प्रतिसबन्धिनं तथाशब्दं प्रतिक्षिपति-तथा वाङ्मनश्च विवक्षायां कर्तव्यायामिति। अन्यथा तु न सत्यम् । एतत्सोपपत्तिकमाह-परत्र पुरुषे स्वबोधसंक्रान्तये स्वबोधसदृशबोधजननाय वागुक्तोच्चारता । अतः सा यदि न वञ्चिता वञ्चिका यथा द्रोणाचार्येण स्वतनयाश्वत्थाममरणमा 'युष्मन्सत्यधनाश्वत्थामा हत' इति पृष्टस्य युधिष्टिरस्य प्रतिवचनं हस्तिनमभिसंधाय 'सत्यं हतोऽश्वत्थामेति' । तदिदमुक्तस्योत्तरं न युधिष्ठिरस्य स्वबोधं संक्रामयति । स्वबोधो ह्यस्य हस्तिहननविषय इन्द्रियजन्मा । न चासौ संक्रान्तः किं त्वन्य एव तस्य तनयवधबोधो जात इति । भ्रान्ता वा भ्रान्तिजा । भ्रान्तिश्च विवक्षासमये वा ज्ञेयार्थावधारणसमये वा । प्रतिपत्त्या वन्ध्या प्रतिपत्तिवन्ध्या । यथार्यान्प्रति म्लेच्छभाषा प्रतिपत्तिवन्ध्या, निष्प्रयोजना वा स्यादिति यथानपेक्षिताभिधाना वाक् । तत्र हि परत्र स्वबोधस्य संक्रान्तिरप्यसंक्रान्तिरेव निष्प्रयोजनत्वादिति । एवंलक्षणमपि सत्यं परापकारफलं सत्याभासं न तु सत्यमित्याह-एषेति । तद्यथा सत्यतपसस्तस्करैः सार्थगमनं पृष्टस्य सार्थगमनाभिधानमिति । अभिधीयमानोच्चार्यमाणा। शेषं सुगमम् ।
अभावस्य भावाधीननिरूपणतया स्तेयलक्षणमाह-स्तेयमशास्त्रपूर्वकमिति । विशेषेण सामान्य लक्ष्यत इत्यर्थः । मानसव्यापारपूर्वकत्वाद्वाचनिककायिकव्यापारयोः प्राधान्यान्मनोव्यापार उक्तोऽस्पृहारूपमिति । ब्रह्मचर्यस्वरूपमाह-गुप्तेति । संयतोपस्थोऽपि हि स्त्रीप्रेक्षणतदालापकन्दर्पायतनतदङ्गस्पर्शनसक्तो न ब्रह्मचर्यवानिति । तनिरासायोक्तं गुप्तेन्द्रियस्येति । इन्द्रियान्तराण्यपि तत्र लोलुपानि रक्षणीयानीति । अपरिग्रहस्वरूपमाहविषयाणामिति । तत्र सङ्गदोष उक्तो 'भोगाभ्यासमनुविवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति (२।१५ भाष्य), हिंसालक्षणश्च दोषो “नानुपहत्य भूतान्युपभोगः संभवती"ति (२।१५ भाष्य) । अशास्त्रीयाणामयनोपनतानामपि विषयाणां निन्दितप्रतिग्रहादिरूपार्जनदोषदर्शनाच्छास्त्रीयाणामप्युपाजितानां च रक्षणादिदोषदर्शनादस्वीकरणमपरिग्रहः ॥३०॥
યમ, નિયમ વગેરે યોગનાં અંગોને ઉદ્દેશીને, યમનો નિર્દેશ કરતાં "महिसासत्य" वगैरे सूत्र प्रस्तुत ४३ छे. “सर्वथा.." वगैरेची योगनी अंगभूत