________________
પા. ૨ સૂ. ૩૦] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્તવૈશારદી [ २३८
ક્રમ પ્રમાણે એમનું સ્વરૂપ અને અનુષ્ઠાન કહેવામાં આવશે. ૨૯ तत्त्ववैशारदी
संप्रति न्यूनाधिकसंख्याव्यवच्छेदार्थं योगाङ्गान्यवधारयति-तत्र योगाङ्गान्यवधार्यन्त इति । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि । अभ्यासवैराग्य श्रद्धावीर्यादयोऽपि यथायोगमेतेष्वेव स्वरूपतो नान्तरीयकतयान्तर्भावयितव्याः ||२९||
“तत्र योगांगानि.." वगेरेथी खोछी वधारे संख्या नथी, खेम हर्शाववा माटे योगनां अंगोनुं निर्धारण ४रे छे. "यमनियम..." वगेरे सूत्र छे. અભ્યાસ, વૈરાગ્ય, શ્રદ્ધા, ઉત્સાહ વગેરેનો પણ યથાયોગ્ય રીતે આ આઠમાં સ્વરૂપથી અંતર્ભાવ થાય છે, એમ જાણવું જોઈએ. ૨૯
तत्र- मां : (से पैडी)
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥३०॥
अहिंसा, सत्य, अस्तेय, ब्रह्मयर्य अने अपरिग्रह यमो छे. ३०
भाष्य
तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोह:, उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते, तदवदातरूपकरणायैवोपादीयन्ते । तथा चोक्तम्- स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसा करोति ।
सत्यं यथार्थे वाङ्मनसे । यथा दृष्टं यथानुमितं यथा श्रुतं तथा वाङ्मनश्चेति । परत्रं स्वबोधसंक्रान्तये वागुक्ता सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेदिति । एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय । यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्पापमेव भवेत् । तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात् । तस्मात्परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् ।
स्तेयमशास्त्रपूर्वकं द्रव्याणां परत: स्वीकरणम्, तत्प्रतिषेधः