________________
२२४]
પતંજલિનાં યોગસૂત્રો
[५५ २ २. २
અહીં કોઈ નાસ્તિક નપુંસકનો દાખલો આપીને આ કેવલ્ય સિદ્ધાન્તપર આક્ષેપ કરે છે ભોળી પત્ની નપુંસક પતિને કહે છે. "आर्यपुत्र, भारी पडेन पुत्रवती छ. ई म नथी ?" मेरी पत्नीने ३६. : "भ[ पछी ई तारा पुत्रने उत्पन्न हरीश" मेम मा विद्यमान श. ચિત્તની નિવૃત્તિ કરતું નથી. નષ્ટ થઈને કરશે એની શી આશા ?
આ વિષે આચાર્ય હોવાનો ડોળ કરનાર કહે છે : “બુદ્ધિની નિવૃત્તિ મોક્ષ છે. અદર્શનના કારણના અભાવથી બુદ્ધિ નિવૃત્ત થાય છે. બંધનું ७॥२९॥ महशन शनथी नष्ट थाय छे.” (पोतानो मत 53 छ :) “यित्त નિવૃત્તિ જ મોક્ષ છે.” શા માટે આને (શંકા કરનારને) અસ્થાને મતિભ્રમ થવો જોઈએ ? ૨૪
तत्त्व वैशारदी चतुर्थं विकल्पं निर्धारयितुं सूत्रमवतारयति-यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोग इति । प्रतीपमञ्चति प्राप्नोतीति प्रत्यगसाधारणस्तु संयोग एकैकस्य पुरुषस्यैकैकया बुद्ध्या वैचित्र्यहेतुः । सूत्रं पठति-तस्येति । नन्वविद्या विपर्ययज्ञानम्, तस्य भोगापवर्गायोरिव स्वबुद्धिसंयोगो हेतुः । असंयुक्तायां बुद्धौ तदनुत्पत्तेः तत्कथमविद्या संयोगभेदस्य हेतुरित्यत आह- विपर्ययज्ञानवासनेति । सर्गान्तरीयाया अविद्यायाः स्वचित्तेन सह निरुद्धाया अपि प्रधानेऽस्ति वासना । तद्वासनावासितं च प्रधानं तत्पुरुषसंयोगिनी तादृशीमेव बुद्धिं सृजति । एवं पूर्वपूर्वसर्गेष्वित्यनादित्वाददोषः । अत एव प्रतिसर्गावस्थायां न पुरुषो मुच्यत इत्याह-विपर्ययज्ञानेति । यदा पुरुषख्यातिः कार्यनिष्ठां प्राप्ता तदा विपर्ययज्ञानवासनाया बन्धकारणस्याभावान पुनरावर्तत इत्याहसा त्विति ।
___ अत्र कश्चिन्नास्तिकः कैवल्यं षण्डकोपाख्यानेनोपहसति । षण्डकोपाख्यानमाहमुग्धयेति । किमर्थमित्यर्थशब्दो निमित्तमुपलक्षयति, प्रयोजनस्यापि निमित्तत्वात् । षण्डकोपाख्यानेन साम्यमापादयति-तथेदं विद्यमानं गुणपुरुषान्यताख्यातिज्ञानं चित्तनिवृत्ति न करोति, परवैराग्येण ज्ञानप्रसादमात्रेण ससंस्कारं निरुद्धं विनष्टं करिष्यतीति का प्रत्याशा। यस्मिन्सत्येव यद्भवति तत्तस्य कार्य, न तु यस्मिन्नसतीति भावः । अत्रैकदेशिमतेन परिहारमाह-अत्रेति । ईषदपरिसमाप्त आचार्य आचार्यदेशीयः । आचार्यस्तु वायुप्रोक्ते कृतलक्षण:
आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि ।