________________
પ. ૨ સૂ. ૨૧] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વશારદી [ ૨૧૧
भाष्य दृशिरूपस्य पुरुषस्य कर्मरूपतामापन्नं दृश्यमिति तदर्थ एव दृश्यस्यात्मा स्वरूपं भवतीत्यर्थः । तत्स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति । स्वरूपहानादस्य नाशः प्राप्तः, न तु विनश्यति ॥२१॥
દશિરૂપ પુરુષનું કર્મ (ભોગ્ય) હોવાથી દશ્યનું સ્વરૂપ એને માટે જ છે, એવો અર્થ છે. એનું સ્વરૂપ અન્ય માટે અસ્તિત્વ ધરાવતું હોવાથી પુરુષના ભોગ અને મોક્ષનું સંપાદન કર્યા પછી, પુરુષ વડે જોવાતું નથી. આમ સ્વરૂપની હાનિ થવાથી એનો નાશ થવાનો પ્રસંગ આવ્યો, પણ નષ્ટ થતું નથી. ૨૧
तत्त्व वैशारदी द्रष्टदृश्ययोः स्वरूपमुक्त्वा स्वस्वामिलक्षणसम्बन्धाङ्गं दृश्यस्य द्रष्ट्रर्थत्वमाह-तदर्थ एव दृश्यस्यात्मेति । व्याचष्टे-दृशिरूपस्य पुरुषस्य भोक्तुः कर्मरूपतां भोग्यतामापन्नं दृश्यमिति, तस्मात्तदर्थ एव द्रष्ट्रर्थ एव दृश्यस्यात्मा भवति न तु दृश्यार्थः । ननु नात्मात्मार्थं इत्यत आह-स्वरूपं भवतीति । एतदुक्तं भवतिसुखदुःखात्मकं दृश्यं भोग्यम् । सुखदुःखे चानुकूलयितृप्रतिकूलयितृणी तत्त्वेन तदर्थे एव व्यवतिष्ठते । विषया अपि हि शब्दादयस्तादात्म्यादेव चानुकूलयितारः प्रतिकूलयितारश्च । न चात्मैवैषामनुकूलनीयः प्रतिकूलनीयश्च, स्वात्मनि वृत्तिविरोधात् । अतः पारिशेष्याच्चितिशक्तिरेवानुकूलनीया प्रतिकूलनीया च । तस्मात्तदर्थमेव दृश्यं न तु दृश्यार्थम् । अतश्च तदर्थ एव दृश्यस्यात्मा न दृश्यार्थः; यत्स्वरूपमस्य यावत्पुरुषार्थमनुवर्तते, निर्वतिते च पुरुषार्थे निवर्तते इत्याह - स्वरूपमिति । स्वरूपं तु दृश्यस्य जडं पररूपेणात्मरूपेण चैतन्येन प्रतिलब्धात्मकमनुभूतस्वरूपं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यते । भोगः सुखाद्याकारः शब्दाद्यनुभवः । अपवर्ग: सत्त्वपुरुषान्यतानुभवः । तच्चैतदुभयमप्यजानतो जडाया बुद्धेः पुरुषच्छायापत्त्येति पुरुषस्यैव। तथा च पुरुषभोगापवर्गयोः कृतयोर्दृश्यस्य भोगापवर्गार्थता समाप्यत इति भोगापवर्गार्थतायां कृतायामित्युक्तम् । अत्रान्तरे चोदयति-स्वरूपहानादिति । परिहरति न तु विनश्यतीति ॥२१॥
द्रा भने ४श्यनु स्व३५ टीने, वे "त६र्थ भेष..." वगैरे सूत्रथा में બેના સ્વ-સ્વામીભાવ લક્ષણવાળા સંબંધના અંગ તરીકે દશ્યની દ્રષ્ટા માટે જ ध्याति छ, सेम डे छ. "शि३५स्य पुरुषस्य..." वगेरेथा सूत्र समवे छे. દશિરૂપ ભોક્તા પુરુષનું કર્મ બનીને ભોગ્યપણાને પ્રાપ્ત થયેલું દશ્ય એને - પુરુષને