________________
પા. ર સૂ. ૪] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૧૪૧
इव दधि । न हि विवेकख्यातेरन्यदस्ति कारणं तद्वन्ध्यतायाम् । अतो विदेहप्रकृतिलया विवेकख्यातिविरहिणः प्रसुप्तक्लेशा न यावत्तदवधिकालं प्राप्नुवन्ति । तत्प्राप्तौ तु पुनरावृत्ताः सन्तः क्लेशास्तेषु तेषु विषयेषु संमुखीभवन्ति । शक्तिमात्रेण प्रतिष्ठा येषां ते तथोक्ताः । तदनेनोत्पत्तिशक्तिरुक्ता । बीजभावोपगम इति च कार्यशक्तिरिति । ननु विवेकख्यातिमतोऽपि क्लेशा: कस्मान प्रसुप्ता इत्यत आह- प्रसंख्यानवत इति । चरमदेहः, न तस्य देहान्तरमुत्पत्स्यते यदपेक्षयास्य देहः पूर्व इत्यर्थः । नान्यत्र । विदेहादिष्वित्यर्थः । ननु सतो नात्यन्तविनाश इति किमिति तदीययोगद्धिबलेन विषयसंमुखीभावे न क्लेशाः प्रबुध्यन्त इत्यत आह-सतामिति । सन्तु क्लेशा, दग्धस्त्वेषां प्रसंख्यानाग्निना बीजभाव इत्यर्थः ।
क्लेशप्रतिपक्षः क्रियायोगस्तस्य भावनमनुष्ठानं तेनोपहतास्तनवः । अथ वा सम्यग्ज्ञानमविद्यायाः प्रतिपक्षो भेददर्शनमस्मिताया माध्यस्थ्यं रागद्वेषयोरनुबन्धबुद्धिनिवृत्तिरभिनिवेशस्येति । विच्छित्तिमाह-तथेति । क्लेशानामन्यतमेन समुदाचरताभिभवाद्वात्यन्तं विषयसेवया वा विच्छिद्य विच्छिद्य तेन तेनात्मना समुदाचरन्त्याविर्भवन्ति वाजीकरणाधुपयोगेन वाभिभावकदौर्बल्येन वेति । वीप्सया विच्छेदसमुदाचारयोः पौन:पुन्यं दर्शयता यथोक्तात्प्रसुप्ताद्भेद उक्तः । रागेण वा समुदाचरता विजातीयः कोधोऽभिभूयते सजातीयेन वा विषयान्तरवर्तिना रागेणैव विषयान्तरवर्ती रागोऽभिभूयत इत्याह-रागेति । भविष्यवृत्तेस्त्रयो गतिर्यथायोगं वेदितव्येत्याह- स हीति । भविष्यवृत्तिक्लेशमात्रपरामर्शि सर्वनाम न चैत्ररागपरामशि, तस्य विच्छिनत्वादेवेति । उदारमाह- विषय इति ।
ननूदार एव पुरुषान्क्लिश्नातीति भवतु क्लेशः । अन्ये त्वक्लिश्नतः कथं क्लेशा इत्यत आह-सर्व एवैत इति । क्लेशविषयत्वं क्लेशपदवाच्यत्वं नातिकामन्त्युदारतामापद्यमानाः । अत एव तेऽपि हेया इति भावः । क्लेशत्वेनैकतां मन्यमानश्चोदयति- कस्तीति । क्लेशत्वेन समानत्वेऽपि यथोक्तावस्थाभेदाद्विशेष इति परिहरति-उच्यते सत्यमिति । स्यादेतत् - अविद्यातो भवन्तु क्लेशाः, तथाप्यविद्यानिवृत्तौ कस्मानिवर्तन्ते ? न खलु पटः कुविन्दनिवृत्तौ निवर्तत इत्यत आह- सर्व एवेति । भेदा इव भेदाः । तदविनिर्भागवर्तिन इति यावत् । पृच्छति-कस्मादिति । उत्तरमाहसर्वेष्विति । तदेव स्फुटयति-यदिति । आकार्यते समारोप्यते । शेषं सुगमम् ।
प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम् । विच्छिनोदाररूपाश्च क्लेशाः विषयसङ्गिनाम् ॥ इति संग्रहः ॥४॥