________________
१30 ]
પતંજલિનાં યોગસૂત્રો
[पा. १ सू. ५१
निरुध्यतेऽनेन प्रज्ञेति निरोधः परं वैराग्यम् । ततो जातो निरोधजः संस्कारः । संस्कारादेव दीर्घकालनैरन्तर्यसत्कारासेवितपरवैराग्यजन्मनः प्रज्ञासंस्कारबाधो न तु विज्ञानादित्यर्थः ।
स्यादेतत्-निरोधजसंस्कारसद्भावे किं प्रमाणम् । स हि प्रत्यक्षेण वानुभूयेत, स्मृत्या वा कार्येणानुमीयेत । न च सर्वंवृत्तिनिरोधे प्रत्यक्षमस्ति योगिनः । नापि स्मृतिः । तस्य वृत्तिमात्रनिरोधतया स्मृतिजनकत्वासंभवादित्यत आह- निरोधेति । निरोधस्थितिश्चित्तस्य निरुद्धावस्थेत्यर्थः । तस्याः कालक्रमो मुहूर्तार्धयामयामाहोरात्रादिस्तदनुभवेन । एतदुक्तं भवति- वैराग्याभ्यासप्रकर्षानुरोधी निरोधप्रकर्षो मुहूर्तार्धयामादिव्यापितयानुभूयते योगिना । न च परवैराग्यक्षणाः क्रमनियततया परस्परमसंभवन्तस्तत्तत्कालव्यापितया सातिशयं निरोधं कर्तुमीशत इति तत्तद्वैराग्यक्षणप्रचयजन्य: स्थायी संस्कारप्रचय एषितव्य इति भावः । ननूच्छिद्यन्तां प्रज्ञासंस्काराः । निरोधसंस्कारास्तु कुतः समुच्यिन्ते । अनुच्छेदे वा साधिकारत्वमेवेत्यत आह- व्युत्थानेति । व्युत्थानं च तस्य निरोधसमाधिश्च संप्रज्ञातस्तत्प्रभवाः संस्काराः कैवल्यभागीया निरोधजाः संस्कारा इत्यर्थः । व्युत्थानप्रज्ञासंस्काराश्चित्ते प्रलीना इति भवति चित्तं व्युत्थानप्रज्ञासंस्कारवत् । निरोधसंस्कारस्तु प्रत्युदित एवास्ते चित्ते । निरोधसंस्कारे सत्यपि चित्तमनधिकारवत् । पुरुषार्थजनकं हिचित्तं साधिकारं शब्दाद्युपभोगविवेकख्याती च तथा पुरुषार्थी । संस्कारशेषतायां तु न बुद्धेः प्रतिसंवेदी पुरुष इति नासौ पुरुषार्थः । विदेहप्रकृतिलयानां न निरोधभागितया साधिकारं चित्तम् अपि तु क्लेशवासिततयेत्याशयवानाह यस्मादिति । शेष सुगमम् ॥५१॥
અહીં સમાધિપ્રજ્ઞાના સંસ્કારોનું પ્રયોજન ચિત્તના ભોગાધિકારની શાન્તિ (अंत) छे, खेम धुं : "डिं यास्य भवतिथी प्रश्न पूछे छे } (समाधि) प्रज्ञाना સંસ્કારોવાળું ચિત્ત પ્રજ્ઞાપ્રવાહ ઉત્પન્ન કરનારું હોવાથી, પહેલાંની જેમ સાધિકાર છે માટે એ અધિકારની નિવૃત્તિ માટે બીજું પણ કાંઈ અપેક્ષિત છે ? એવો પ્રશ્નનો અર્થ છે. “તસ્યાપિ નિરોધે”... વગેરે સૂત્રથી કહે છે કે એના પણ નિરોધથી સર્વ નિરોધ થતાં નિર્બીજ સમાધિ થાય છે. જ્ઞાનપ્રસાદમાત્ર લક્ષણવાળા પર વૈરાગ્યથી, વૈરાગ્ય સંસ્કારની ઉત્પત્તિ વડે, (સમાધિ) પ્રજ્ઞાએ કરેલા સંસ્કારોનો પણ નિરોધ, ફક્ત પ્રજ્ઞાનો નિરોધ નહીં, એવો “અપિ” શબ્દનો અર્થ છે. ઉત્પન્ન થતા બધા સંસ્કાર-પ્રજ્ઞા પ્રવાહનો નિરોધ કરવાથી, કારણના અભાવમાં કાર્યની ઉત્પત્તિ ન થતાં નિર્બીજ સમાધિ થાય છે.
‘‘સ ન કેવલમ્” વગેરેથી ભાષ્યકાર સૂત્રની વ્યાખ્યા કરતાં કહે છે કે એ