SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगादिवन्दना चिन्तामण्यादय इह फलैरैहिकैः किश्चिदासन् , दातृत्वाख्यास्त्वयि तु सततं शैलमौले प्रसप॑त् । नानानन्तातुलफलकलादानशक्तिप्रभावः, किं तच्चित्रं ननु सुगुरवः सर्वशक्तिप्रयुक्ताः ॥१४॥ सद्धिः सेव्यः सुगुरुरिति या ख्यातिरास्ते यथार्था, चक्रे सैवं विमलगिरिणा भावना भावितानाम् । एतत्तीर्थोत्तम गुरुधियामिष्टशिष्टार्थदानैः, सर्व युक्तं सततसफलाः सेविनां स्युर्महान्तः ॥१५॥ स्मारं स्मारं विशदशिवदं रूपरूपं तवात्म, स्वान्तं पूर्त नयनसुभगच्छायशृङ्गप्रसङ्गम् । कारं कारं त्वयि नुतिरत शैलवाकायशुद्धि, कुर्वे सन्तः खलु परिचितास्तान्तिशान्त्यै प्रसन्नाः ।।१६।। सौभाग्यं तेऽनुपम महिमारम्यमान्याः क्षमः कः, शक्त्या बक्तुं शिखरिमुकुट त्वद्गुणध्यानधन्याः । सम्पत्प्राप्ति भवभयभिदं भाग्यसौभाग्यभोगं, लब्ध्वा हृष्टप्रकृतय इहानन्दकन्दा हि सन्तः ।।१७।। वन्दे शत्रुञ्जयगिरिवरं विश्वसम्पद्विलासं श्रेयः श्रीणां ललनसदनं ब्रह्मलक्ष्मीविनोदम् । कर्मारीणां सरसविजयस्तम्भमिष्टधुरत्नं, सद्वोहित्थं भवभयजले सर्वसिद्धिप्रसिद्धिम् ।।१८।। इत्यानन्दमहोदयोज्ज्वलकलालीलाविलासान्नुतः, श्रीशत्रुअयनामतीर्थशिखरी सौभाग्यचूडामणिः । त्रैलोक्योदितहर्षहर्षविनयश्रीसूरितप्रौढिमं, बोधि मे विदधातु कामितफलं श्रीधर्महंसश्रियम् ॥१९॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy