________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युगादिवन्दना
[अष्टुपवृत्तम्] अवज्ञायाऽज्ञतां स्वस्य, सर्वज्ञ त्वां स्तवीम्यहम् । यन्मां मुखरत्येषा, दुर्वारा भक्तिमानिता ॥१॥ जयन्त्यादिमतीर्थेश !, त्वत्पाद-नखदीप्तयः । वनपञ्जश्तां यांत्यो, भवाऽरित्रस्त-देहिनाम् ॥२॥ देव : त्वञ्चरणाम्भोजम् ईक्षितुं राजहंसवत् । धन्याः प्रतिदिनं दूरात, अपि धावन्ति देहिनः ॥३॥ घोरसंसारदुखातैः, शीतातॆरिव भास्करः । शरणीक्रियसे स्वार्मि, त्वमेवैको विवेकिभिः ॥४॥ ये त्वां पश्यन्ति भगवन् !, नैत्रैरनिमिषैर्मुदा । परलोके ऽप्यनिमिषी-भावस्तेपां न दुर्लभः ।।५।। देव ! त्वद्देशना-वाग्भि,याति कर्ममलो नृणाम् । क्षीरेण क्षमैवस्त्राणा, मिव मालिन्यमांजनम् ॥६॥ स्वामिन्नृषभनाथे' ति, जप्यमाना तवाऽमिधा । आलंम्बते सर्वसिद्धि-समाकर्षणमन्त्रताम् ॥णा न वनमपि भेदाय, न शूलमपि हि छिदे । तेषां शरीरिणां नाथ!, येऽधिन्वद्भक्तिवर्मिताः ।।८।।
[अनुष्टुपवृत्तम् ] त्वां जडोऽपि जगन्नाथ !, युक्तमानी स्तवीम्यहम् । लल्ला अपि हि बालानां युक्ता एव गिरो गिरौ ॥१॥ देव! त्वामाऽऽश्रयन् जन्तु-गुरुकर्मापि सिध्यति । अयोऽपि हेभीभवति स्पर्शासिद्ध-रसस्य हि ॥२॥
For Private And Personal Use Only