________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युगारिकता
भवदुःखाऽऽतपक्लेश-विवशानां
शरीरिणां । छत्रच्छायायमानांघ्रि-च्छाय ! त्रायस्व नः प्रभो ! ॥३॥ कृतार्थस्त्वं स्वयं नाथ ! कृते लोकस्य केवलम् । एवं विहरसे स्वार्थायोद्याति किमऽहस्करः १ ॥४॥ मध्यंदिनाऽदित्य इव त्वयि प्रभवति प्रभो! । संकुचयत्यभितः कर्म देहच्छायेव देहिनाम् ॥५॥ तिर्यचोऽपि हि धन्यास्ते ये त्वां पश्यन्ति सर्वदा । भवहर्शनवन्ध्यास्तु, त्रिविष्टपसदोऽपि न॥६॥ प्रकृष्टेभ्यः प्रकृष्टास्ते भविकास्त्रिजगत्पते । एको हृदयचैत्येषु, येषां त्वमऽधिदेवता ॥७॥ एकं याचे भवत्पादान् प्रामाग्रामं पुरात्पुरम् । विहरमपि मा जातु, विहासीहदयं मम ॥८॥
[अनुष्टुपवृत्तम्] त्वत्प्रभावात्स्तवीमि त्वाम् अप्राज्ञोऽपिजगत्पते ! । शशिनं पश्यतां दृष्टि-मन्दाऽपि हि पटूयति ॥१॥ मोहान्धकारनिर्मग्न-जगदाऽऽलोकदीपकम् आकाशवयनंतं ते स्वाभिन् ! जयति केवलम् ।।२।। प्रमादनिद्रामग्नानां, नाथ! कार्येण मादृशाम् । एवं गताऽऽगतानि त्वं करोष्यर्क इवाऽसकृत् ॥३॥ जन्मलक्षार्जितं कर्म त्वदालोकाद्विलीयते । ... कालेन दृषदीभूतमप्याज्यं वह्निना द्रवेत् ॥४॥ एकान्तसुखमातोऽपि साध्वी च सुखदुःखमा । यत्र कल्पद्रुमेभ्यस्त्वं विशिष्ट फलदोऽभवः ॥५॥
For Private And Personal Use Only