________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-१८
युगादिवन्दना
सद्यः शान्तिर्भवति मनना-द्यद्विभूतेर्जनानाम्,
आत्मानन्दः प्रभवति परोत्कर्षतादानदक्षः । बाह्यो भावस्त्यजति हृदयं शुद्धशान्त-स्वरूपम,
आदीशं तं वरझगडिया-भूषणं नौमि नित्यम् ॥२॥ सोपानालिविलसति महाचैत्यसम्बन्धिनी या.
तामाश्रित्याऽक्षयसुखगता भव्यजीवा भवन्ति । मूर्ति यस्य प्रवरविभया भ्राजमानां विलोक्य,
आदीशं तं वरझगडिया-भूषणं नौमि नित्यम् ||३|| मूर्ति यावत्तव विषहरां शुद्धधर्मानुरक्ताः,
नो वीक्षन्ते परजनकृपाकांक्षिणो वीतमोहाः । पापच्यन्तेऽभयदभुवने तावदक्षीणपापा,
आदीशं तं वरझगडिया भूषणं नौमि नित्यम् ॥४॥ मोक्षाकांक्षा गतभवभयाः सिद्धयति त्वत्प्रणामात् ,
दुःप्राप्योऽसौ परमविभवाद् दुष्टकर्मारिमूलात् । सिद्धि साध्या गुरुमुखतया सर्वथा मानवानाम्,
__ आदीशं तं वर झगडिया-भूषणं नौमि नित्यम् ॥५॥ यस्याऽधीनं जगति विशदोद्धारकं धर्मवर्त्म,
यस्याऽधीनं जगदभिमतां शर्मसन्तानमिद्धम् । यस्याऽधीनं कलिगुणगणोदभेदकं मुख्य तत्त्वम,
आदीशं तं वरझगडिया-भूषणं नौमि नित्यम् ॥६॥ पारावारे जननमरणक्लेशवित्ते भवेऽस्मिन,
पीडयन्त-स्त्वञ्चरणवनमनावम आसाद्य सद्यः । तीरोत्तीर्णाः सुखमनुभवन्तो न खिन्नाः परत्र,
आदीशं तं वरझगडिया-भूषणं नौमि नित्यम् ॥७॥ हृद्ये तत्त्वे परिणतमतिस्तावकीने महीने.
भव्यो नव्योऽनवरतमसौ संसृते-र्याति पारम् । स्मारं स्मारं दि तव पदं ध्यानमग्ना(अंतरात्मा) जनास्ते(?)
आदीशं तं वरझगडिया-भूषणं नौमि नित्यम् ॥८॥
For Private And Personal Use Only