________________
Shri Mahavir Jain Aradhana Kendra
स्तवनानि
www.kobatirth.org
मम
ऋषभाद्याः जिनाः सर्वे, विरहं निजपादयोः । मा ददतामीशः, सेवके कृतवत्सलाः ||४|| अर्बुदोऽयं नगाधीशो, जीयाश्चिर मिलातले । प्रासादै र्यो समैर्जनैरभ्रंलिहैः पवित्रितः ||५||
Acharya Shri Kailassagarsuri Gyanmandir
[ शार्दूलविक्रीडितम् ]
श्रीमद् देववरानतोत्तमपदाऽम्भोजद्वयः सिद्धिदः, श्रीसर्वार्थविमानतो वृतसुख, श्रच्युत्वाऽऽगतो भूतले । श्रद्धाध्याननिदानमानवगुणः, शम्र्मावली सद्गृहम
श्रीनाभेयजिनेश्वरोऽस्तु सुखदो, धर्मार्थिनां प्राणिनाम् ॥ १॥ त्रैलोक्यं कलयन्करामलकव-द्योनिं श्रितो नाकुलम्,
सर्वज्ञः पुरुषोत्तमोजिनवर, शान्तः समाधिस्थितः । सबोधावितहृद्यहृत्सरसिजः, सत्प्रेमराजन्मना,
2
भव्याम्भोजविभावसु विजयतां श्रीमारुदेवप्रभुः ||२|| सम्यग्ज्ञानकलान्विता विदधता, प्रौढप्रतापश्रियो,
येनाऽ ज्ञानतमस्तति र्विनिहता, चेतः स्थिता प्राणिनाम् । सोऽयं मानस भूमिजार्त्तिविरुधां, संघातमुन्मूलयन्,
माङ्गल्यं धनराशिमांस्तनुमत कुर्याद्युगादीश्वरः ||३॥ सर्वज्ञानमयोजगत्त्रयगुरु र्यः संश्रिता यं जनाः,
येन श्री - रचलावृताऽमरगणा, यस्मै नमस्कुर्वते । यस्माद्दूरगतं विमोह तिमिरं यस्याऽस्ति सेव्यं वचो,
यस्मिन् गौरवता स्थिता जिनवरे, वन्दे तमा-दीश्वरम् ||४|| श्री सिद्धाचलसानुरत्न विलसन्मूर्त्ते ! कृपावारिधे !
भव्याम्भोज विबोधनैकतरणे, राजत्प्रभाभास्वर ! | दुर्ध्यानाऽनलतप्तमेघपटल ! ग्लानार्त्तिहानिप्रिय ! त्वं क्रीडस्व मदीयमानसवराऽऽरामे
युगादीश्वर ! ||५||
For Private And Personal Use Only
३७