________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युगादिनम्दाना
सौभाग्यभाग्यकमलाकमलायमाना
निद्राननाऽऽकृतिनिरस्तनिशाधिनाथम् । स्वानः स्मरध्वं अधिमारुतनामनाथम् ,
भो भो जना ! ऋषभनाथम् अनाथनाथम् ॥३॥ विद्युत्प्रचण्डरुचिदण्डदवाग्निपिण्ड-,
जैत्रप्रतापभरभग्नदिवाधिनाथम् । नित्यं नमध्वमुदयाब्धिजलाधिनाथम् ,
भो भो जना ! ऋषभनाथम् अनाथनाथम् ॥४॥ श्रीऋषभनाथनामप्रभुः,
प्रभूतप्रभुत्वगुणधाम । इति मेदपाटमुकुटः, . स्तुतो जयतु
कामकामकुटः ॥५॥
[ उपजातिवृत्तम् ] पयोजपाणिं वृषभं वृषाङ्क, रमातनूजन्मभिदावृषाङ्कम् । महोदयश्रीरजनीमृगाङ्क, गुरुं स्तुवे कीर्तिनिरस्तराकम् ॥१॥ रुचिं दधानं परमाभिताकं, श्रीमङ्गलैस्तं समुपैति साकम् । हेलापहीणं श्रितपुण्यपाकं, ररक्षयस्त्यां हृदि बुद्धलोकम् ॥२॥ विद्याऽनवद्यातमुपेत्य शोक, जलेशयश्रीजितशाल्पशोकम् । यस्त्वां स्मरेत्पीडितकामघूकं, सूरप्रभं हर्षितसाधुकोकम् ॥३॥ रिपुव्रजाक्रान्तममुं वराकं, पुन्नाग पुन्नागनुतिष्वमूकम् । गंभीरसंसारजलैकमेकं, वाग्-वर्य! नाभेय! पुनीह्यशोकम् ॥४॥
For Private And Personal use only