________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तवनानि
श्रीऋषभजिनेन्द्रस्तवनम्
[त्रोटकवृत्तम् । जयदोदयसंयमधूधरणा, दिवयो वृषभाह्वयम आपपरम् । प्रथितावितथव्यवहारपथं, प्रणयामि नतिं वृषभैकविभुम् ॥१॥ ऋषभ! प्रभुताद्भुतते-ह नया, तव क्वाऽपि चकास्ति यतः सततम् । मनसाऽपि विभावितभूतगुणः, स्वपदप्रद एव भवान्भविनाम् ॥२॥ वदनं वदनं सदनन्तपदं, प्रथितार्थगिरां नतदक्पथगम् । भवभीतिभिदे तव भद्रभरोद्-भवनाय च सम्भवति प्रसभम् ॥३॥ तव मूर्तिरियति नतार्त्तिशमाप्तं, चरणं करणं करणं शरणम् । समशिश्रियदाश्रमविश्रमणं, जिनपादयुगेऽकलयकमला ||४|| इति हर्षविनयसूरिस्तुतिनुत, पदपंकजः स्तुति]त्वं मे । तव वृषभदेव ! सेवां विरचये, गुरु-धर्महंस-रसाम् ॥५॥
{ वसन्ततिलकावृतम् ] त्रैलोक्यलोककुलकल्पितकल्पनैक
कल्पद्रुमं क्रयणमन्त्रिदशाधिनाथम् । भक्त्या भजध्वं अरिहं कु कुरङ्गनाथम् ,
भो भो जना ! ऋषभनाथम अनाथनाथम् ॥१॥ चञ्चञ्चरित्रशुचिदर्शनसुप्रधान
ज्ञानश्रियं वितरणे रणतादिनाथम । आराधयध्व-मुरु-धैर्य-जितादिनाथम् ,
भो भो जना ! ऋषभनाथम् अनाथनाथम् ॥२॥
For Private And Personal Use Only