________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तुतयः
२७
पायाद्वः श्रुतदेवताश्रितवती, शुक्लाम्बुजं निर्मलम् ,
सम्यक्तत्त्वविलासरक्तहृदया, विस्तारिता नन्दका । यत्प्रेक्ष्याऽलसमानसा स्थितवती, सद् भ्रामरी सन्ततिः,
सन्त्यज्याऽऽश्रमिताऽमरद्रुमसुमं, सौरम्यसंराजितम् ।।४।।
[ मालिनीवृत्तम् ] जय वृषभजिनऽभिः, ष्टुयसे निम्ननाभिः
__जडिमरविसनाभिर्यः सुपर्वाङ्गनाभि : । तम इह किल नाभि,-क्षोणिभृत्सून्नुनाभि
द्रतभुवनम् अनाभि शान्तिसम्पत्कुनाभिः ॥१॥ विगलितवृजिनानां, नौमि राजी जिनानाम्,
___ सरसिजनयनानाम्, पूर्णचन्द्राननानाम् । गजवरगमनानाम् , वारिवाहस्वनानाम् ,
हतमदमदनानां, मुक्तजीवाऽऽसनानाम् ॥२॥ अविकलकलतारा,-प्राणनाथांशुतारा,
भवजलनिधितारा, सर्वदाऽविप्रतारा । सुरनरविनता रात्वाऽऽहती गीर्वताऽऽरा,
दनवरतमितारा, ज्ञानलक्ष्मी सुतारा ॥३॥ नयनजितकुरङ्गी, कांसुधारोचिरङ्गी-,
मिह किल मुहुरङ्गी; कृत्यचित्तान्तरङ्गी । स्मरति हि सुचिरंगी, देवतां यस्तु तरङ्गी,
कुरुत इममरंगीत्यादिकृत्बन्धुरङ्गी ।।४।।
For Private And Personal Use Only