________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तुतयः
[ वसन्ततिलकावृत्तम् ] आनन्दमन्दिरमुपैमि तमृद्धिविश्व,
नाभेय! देवमहितं सकलाभवन्तम् । लब्ध्वा जयन्ति यतयो भवयोधम् आदौ,
नाभेयदेवमहितं सकला भवन्तम् ॥१॥ तं तीर्थराजनिकरं स्मर मर्त्य ! मुक्तं,
पद्भेक्षणं सुमनसां प्रमदा दरेण । वृष्टि व्यधुर्विविधवर्णजुषां यदंहिं,
__पद्मेऽक्षणं सुमनसां प्रमदादरेण ॥२॥ चित्ते जिनप्रवचनं चतुराः कुरुध्वम् ,
सिद्धेतुलाञ्छितमदो दितसाङ्गजालम् । यत्प्राणिनाम् अकथयद् वरवित्तिलक्ष्मी,
सिद्धेऽतुलां छितमदोदितसाङ्गजालम् ॥३॥ सा मे चिनोतु सुचिरं चलचञ्चुनेत्रा,
चक्रेश्वरी मतिमतान्तिमिरंमदाभा । या हन्ति हेलि रुचिवद् विलसन्नितम्ब,
चक्रेश्वरी मतिमतां तिमिरं मदाभा ॥४॥
] वसन्ततिलकावृत्तम् ]
भक्तामरप्रणतमौलिमणिप्रभाणा,
मुद्दीपकं जिनपदाम्बुजयामलं ते । स्तोष्ये मुदाऽहमनिशं किल मारुदेव !
दुष्टाष्टकर्मरिपुमण्डलभित्सुधीर! ॥१॥
For Private And Personal Use Only