________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
युगादिवन्दना
नायद्यच्छयुतो हयभङ्गपुष्पी,
सत्तत्वसौम्यफलसम्पद् अशेषवन्द्यः । निःशेषगात्रिसुदयोत्तममूलपुष्टिः,
भूयादिहाऽऽगमतरु जनुषां हिताय ॥३॥ वन्द्याऽऽद्यपूज्यजिनपादसरोजभृङ्गी,
मार्णालनालविलसन्मृदुवाहचङ्गी । चक्रेश्वरी जनतनीः अवतादभङ्गी,
श्रीमुक्ति रङ्गमुनि भद्रकरी तथाऽस्तु ॥४॥
[ मालिनीवृत्तम् ।
दिश सुखम् अखिलं नः, सीरसाधारणस्त्वम् ,
वृषभ ! रतरसायाम् ईश ! मानं दधानः । सुरनरनिकरेण स्तूयसे यः सदोद्यद्,
वृषभर तरसायाम् ईश ! माऽऽनंदधानः ॥१॥ सुजनजिनवराणां, स्तोमम् अस्त स्मराणाम्,
व्रज मघवलयानां, तंत्रपात्रं पराणाम् । पवन इव पयोदं, योऽनयन्नाशमाशु,
व्रजमघवलयानां, तन्त्रपात्रं पराणाम् ॥२॥ उचितमिह भवन्तं, सर्ववित्सार्वभौमाऽऽ
___गम तनु महतां मे, ध्यानम् अस्तारभावम् । निखिलसुखनिदानं, कामितार्थंकदेवाऽऽ
___ गमतनु महतां मेध्यानम् अस्तारभावम् ।।३।। त्रिदशततिनता श्रीधाम चक्रेश्वरी सा,
जयति मुदितहृद्, याताऽपमानाऽसमाना । प्रणमति नरराजि, र्या स्तुतध्वस्तदम्भाऽ
जयतिमुदित हृद्या तापमाना समाना ।।४।।
For Private And Personal Use Only