________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैत्यवन्दनानि
[ उपजाति वृत्तम् ]
श्री कण्डुसाधुः सममेक कोट्या,
शुभाणगारः शत सप्तकेन । कोट्या समं सागर संज्ञकश्च,
शिलोचयेशे प्रगताश्च मोक्षम् ॥९॥ कर्माणि भित्त्वा ऽजित सेन साधुः,
शिवं गतः संयम कोटिभिश्च । सत्रायुतेना ऽजितनाथ साधुः,
सुवासरे चैत्रिक पौर्णमास्याम् ॥१०॥ सार्धाष्ट कोटि मित साधु वयः,
शरीरभूजाम्बुवतीतनूजौ । वासे वरे फाल्गुनिके वलक्षे,
स्मरे तिथौ मोक्ष पदं गतौ च ॥११॥ कदम्बसाधुःसममेककोट्था,
सुकालिकः पञ्चसहस्त्रमानैः । श्री रामचन्द्रः शरकोटिभिश्च,
सिद्धाचले मोक्ष पदं प्रजग्मुः ॥१२॥
[ वसन्ततिलका वृतम् ]
ते पाण्डवाश्च सह विंशति कोटिभिश्च,
मोक्षं गताः सुमुनिभिश्च जितेन्द्रियाश्च । कमैन्र्धनानि सकलानि च नाशयित्वा,
सिद्धाचले च सदिषेऽहनि पूर्णिमायाम् ॥१३॥
For Private And Personal Use Only