________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युगादिवाल
(उपजाति) श्रीनाभिसुनो वस सिद्धपूर्या, निःशेषशर्मावलिपूरिताम् । दुष्टाष्टकर्माऽवनिभृविनाश- सुधाऽशनाधीश्वरसिद्धिदाता ॥१॥ समस्ततीर्थप्रभवः प्रकृष्ट-प्रभावयुक्ता इदतां सता शम् ।। मुखप्रभाबाधितशीतपादाः, समय॑शकालिनिषेव्यमानाः ॥२॥ राधान्त एष प्रकारोतु सिद्धि, क्षीणाऽष्टकर्माऽऽननपद्मजातः । निर्देशतस्तीर्थकृतां गणेशाः, सूत्रं यदीयं रचयाम्बभूवुः ।।३॥ चक्रेश्वरी सा मम मङ्गलाऽऽली-महर्निशं मक्षु सुरि तनोतु ।। सूरीश्वरीऽऽनन्दगुरोर्गणे या, समीहितं राति सुहंसवाणी ॥४॥
(शार्दूलविक्रीडितम्) श्रीसोपारकपत्तनाऽद्भुतरमारामाशिरः शेखरं, श्रीनाभिक्षितिपास्वंश कमल प्रोल्लासने भास्करम् । माद्यन्मोहमदाऽष्टकक्षयकरं मोक्षाऽध्वनिस्पन्दनं, भक्त्याऽऽदोशजिनं स्तुवे प्रतिदिन श्रीजीवितस्वामिनम् ॥१॥ पञ्चैरावतपञ्चभारतमुखक्षेत्रेषु ये संस्थिता, भूताऽनागतवर्तमानजिनपा विश्वत्रयीवन्दिताः । लोकालोकविलोकिकेवलमहाज्ञानश्रिया संश्रितास्तेषां श्रीपदपङ्कजं भवभिदे भूयाजिनानां सदा ॥२॥ श्रीसिद्धान्ततरुः पदत्रयमहामूलोऽखिलाङ्गस्फुरच्छाखाभिः समलङ्कृतो वरतरोपाङ्गप्रशाखान्वितः । अर्थश्रेणिसुगन्धिपुष्पनिकरः संवासिताऽऽशामुखो, देयाम्मोक्षफलं जरामृतिहरं भव्यावलीना सदा ॥३॥ श्रीमन्नादिजिनेन्द्रपादकमलप्रोद्यन्नखालीविभाश्रेणीनव्यपरागपूरमधुपः श्रीगोमुखो यक्षराट् । विघ्नौधप्रबलान्धकारभिकरप्रध्वंसनेहर्मणिभव्यानां सततं तनोतु विशदा नानाविधाः सम्पदः ॥४॥
For Private And Personal Use Only