________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सवनानि -
૧૧૨
श्री ऋषभजिन स्सुतयः
१
(हरिणीप्लुतछन्दः) श्री नाभेयं योगिध्येयं देहज्योतिः सारङ्ग, सर्वश्रेयः श्रेयः पद्यागत्यामाद्यत्सारङ्गम् । कर्मक्षोणीजन्मश्रेणी श्रेणीध्वंसे सारङ्ग, नौम्युत्कण्ठाव्याप्तस्वान्तः सौवस्याम्ना सारङ्गम् ॥१॥ अर्हवृन्दं क्लप्ताऽऽनन्दं चचच्चक्षुः सारङ्ग, विश्वाऽमत्यव्याधाऽऽदित्यछायाभेदे सारङ्गम् । क्षामाऽक्षेमं दक्षक्षोणीकौमुद्या मुर्सारङ्ग, श्रेयोरत्याः कण्ठाश्लेषे स्तोष्ये नन्दत्सारङ्गम ।।२।। स्तौम्यध्वान्तं ध्वस्तध्वान्तं श्रीसिद्धान्तं सारङ्ग, भव्याऽम्भोजेष्वाविभूताऽऽनन्दाऽम्भोरुद् सारङ्गम् । अज्ञानाऽऽलीपाथोदालीशत्या दृप्यत्सारङ्ग, वन्दारुणां भीदारुणां वक्षोवृक्षे सारङ्गम् ॥३॥ जैनाऽध्यक्षं दक्षं सुष्ठुछायासारङ्ग, सौच्या वाण्या गाम्भीर्येण ध्वस्तोद्गर्जत्सारङ्गम् । अर्हत्सर्पद्वाक्योद्गर्जन्याऽम्मः सारङ्ग, वन्दे ब्रीडाकामक्रीडाकासार श्रीसारङ्गम् ॥४॥
(उपजाति:) सज्ज्ञानलयाः सुनिवेशनार्थ, सन्मण्डपत्याशु समाऽऽगमोत्था । लसयदंसोपरि केशवल्ली, सदा मुदे वः स युगादिदेवः ॥१॥ त्रैलोक्यलक्ष्म्या वृतये स्वयं या, सम्मण्डपत्याहतचैत्यराजी । साऽनित्यनित्या नमतां नृणां स्यादनित्यनित्याय सुखाय नित्यम् ।।२।। सत्तीर्थलक्ष्म्या विशतौ हि रङ्गात्, श्रीमण्डपत्यास्तृतसूत्रितं यत् तदस्तु मे जैनीवचः प्रपश्चि सुवाचनं प्रावचनं सुवाचौ ॥३॥ श्रीसङ्घलक्ष्म्या सुचिरं सदा ये, समण्डपन्तीह सुराऽपुरीभिः । सङखयावृत्तव्यावृतभावभावाः, सुदृष्टयः सन्तु सुदृष्टये ते ॥४॥
For Private And Personal Use Only