________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पावित्र्योज्ज्वलतादिकान् गुणगणान् गङ्गापगाया इव, त्वं मह्यं जिन ! देहि देहिपटलीवाञ्छा सुपर्व द्रुम । एवं प्रार्थनयेव सूर्यतनया यस्याऽन्तिकं सङ्गता,
दम्भात्कुन्तलसन्ततेः स तनुतां श्रआदिदेवः श्रियम् ||२१||
सम्यग्ज्ञान समुज्ज्वलस्थिरजलः सत्कज्जलश्यामलोन्मीलकुन्तलपारिजातकदलप्रोल्लासितांस स्थलः । कल्यालघुतिमञ्जुलः पथि दृशोः प्राप्तः कलन्मङ्गल - श्रेणीभिवृषभः स पूर्णकलशः सौख्यानि पुष्णातु वः ||२२||
[ खग्धरावृत्तम् ]
गाङ्गयच्छाय कर्णद्वय रुचिररुचिप्रेङ्खदैरम्मदश्रीदन्तज्योतिबलाकाविततिपरिगता मेघमाला विशाला । व्याख्या गम्भीरनादैरिव सपदि जिता कुन्तलालोछलेन, प्राप्ता यत्सेवनार्थ प्रथम जनपतिः सोऽस्तु शस्यश्रिये वः ||२३||
[ शार्दूलविक्रीडितम् |
रुपातीतपदस्थितोऽपि भगवान् बा विकल्पैरसा
वेवं ध्यानपथं कथंचन मया नीतो युगादिप्रभुः । ज्ञात्वा बालकचापलं तदपि मे कारुण्यपुण्यार्णवः ।
कुर्याच्छ्रीगुरूसोमसुन्दर परब्रह्म कलीनं
मनः
For Private And Personal Use Only
॥२४॥
19