________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૭૮૨
उत्पट्टपंकेरुहषट्पदश्रियं, बभार भव्यां सुखसागरसुधीः । चारित्रचूडामणिः शुद्धभावतः, सम्यक्त्वबोधपथनकतत्परः॥५॥ तदीयपटाम्बरभानुमाली, परः शतग्रन्थविधानदक्षः। योगिप्रधानः श्रुतधर्मनिष्ठः कृतावधानः शुभतत्त्वराशौ ॥६॥ विशुद्धभावोऽजनि बुद्धिसागरः, सूरीश्वरो बुद्धिनिधानमुख्यः । पीयूषतुल्यानि वचांसि यस्य, निपीय सन्तोषमियाय भव्यः॥७॥ तत्पट्टलक्ष्मी रुचिरा द्वितीयो, बुध्ध्यब्धिसूरीन्द्रपदान्जसेवी । दधाति शिष्यस्वयमृद्धिसागरः,सूरीश्वरः शास्त्रविदां वरेण्यः ॥८॥ तेन श्रीहारिमद्रीयं, योगबिन्द्राख्यतंत्रके। प्रणीता विकृतिर्बुद्धि--सागरीया सतां मुदे ॥९॥
For Private And Personal Use Only