________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विप्रक्षत्रियवैश्यशूद्रनिवहः स्वे स्वे सदा कर्मणि
प्रोद्यच्छन्नपमत्सरः सरभसं निर्वर्ण्य कंचिन्नरं । यत्रापत्पतितं समुन्नतमनाः सर्वैः प्रकारैः क्षणात्
प्रोद्धृत्यैव सुखीभवन् कृतमहासत्पौरुषेयायते ॥ ८४ ॥ यत्र व्रजति सुमनःप्रकरप्रकार
सौरम्यमंगिभरवासितदिक्तटानि । त्रैलोक्यहक्कुवलयावलिचंद्रवका
दिव्यांगनानि भवनानि विमानलीलां ॥ ८५ ॥ यस्मिनीश्वरमंदिरेष्वनुदिनं भूयो महीयो महः
प्रारंभादभुतविभ्रमेषु विलसन्मंगल्यतूर्यस्वनैः आपत्ते सुरसमधूपसमयातोद्यानवद्यध्वनि
भीतः स्फूर्तिभरं प्रनतितशिखी विश्वस्य शब्दात्मतां ॥८६॥ विभाति यस्मिन् रुचिरा सुवस्त्रैः
प्रसाधिता रत्नसुवर्णभंग्या । श्रीखंडकर्पूरकुरंगनाभी
हृद्या पणाली पणभामिनीव ॥ ८७ ॥ यत्र श्राद्धगणः स्फुरद्विधिपथप्रस्थास्नुपरस्थास्नुता
गाढालिंगितमर्थजातमखिलं नक्तंदिवं भावयन् । निष्पारं भवसागरं तितरिषुस्तीर्थेशपोतं श्रितो
नित्यानंदमयीं विमुक्तिवनितामाप्तुं सदोद्यच्छते ॥ ८८ ॥ तांबडजेहडसोमदेवदेवघरदेहडादीनां ।
श्राद्धानां समुदायो निवसति वसतिः शुभगुणानां ॥ ८९ ॥ सुदर्शनधराधराधिपतिधीरताजित्वर
__सुदर्शनसहोदरं विबुधशात्रवोत्सादने । सुदर्शनमिवाखिलप्रवरतत्त्वसंवीक्षणे |
मुदर्शनरथिं दधदूहृदयरेव (१) य उद्योतते ॥ ९०॥
For Private And Personal Use Only