________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७८) पाठितानेकशिष्येण । सुधिया स्फुटभाषिणा ॥ साधुना सिद्धसेनेन । वृद्धिमस्मि प्रभाणितः ॥ २८ ॥ युगवरजिनचंद्राचार्य शिष्यो वरिष्टो । विरुजसुचिरजीवी प्रांजलश्चारुचर्यः ॥ सकलगुणनिधानं वाचनाचार्यों । गणिवरगुणभद्रोऽभाणयत्यंचिकां माम् ॥२६ ।। सूरि जिनेश्वरगुरुं जिनतीर्थयात्रा-भ्यायात संघसहितं समरंजयघः ॥ श्रीस्तंभतीर्थनगरे वरजल्पकेलौ । निर्जित्य वादियमदंडदिगंबरेशम् ॥ ३० ॥ स श्री सुरप्रभसमभिधो बुद्धिधामाभिषेको । ज्ञाता नाम स्वमिव निखिला लक्षणाद्याश्चविद्याः ॥ स्फायज्ज्यायस्त्वरितकवितानिर्मितौ ब्रह्मकल्पो । विद्यानंदं शिशुमिवभृशं हेलयामाणयन्माम् ॥३१॥ येन मेधाविना प्राप्ता । स्तोककैरेव वत्सरैः ॥ तर्कलक्षणसाहित्य-सिद्धांतोदन्वतां तटाः ॥३२।। सम्यक् शब्दज्ञवैयाकरणगणमहावादिसिद्धांतवेदि-ज्यायः साहित्यविद्याप्रवणवरसुधीपूरितायां सभायाम् ॥ यस्मिन् सज्जल्पकेली कलयति सकलन्यायतर्काभिरामां । सद्यो वादीश्वराणामपि भृशमुदरे हस्तपादं विवेश ॥ ३३ ॥ स्वगच्छगच्छांतरवासिसाधुवर्गश्च शास्त्रार्थसुबोधमिच्छन् ॥ यस्यातुलज्ञाननिधेः समीप-मागत्यसंदेहभरं बभंज ॥ ३४ ॥ ग्रंथाननीक्षितचरानपि तर्कमुख्यान् सौवांगशक्तिविरहेऽपिगणोपकृत्यै ॥ व्याख्यातवान् सुभणि तानिव लीलयैव । यः क्षोदकारकविनेयपुरोऽति चित्रम् ॥३५॥ सोऽयं श्री विजयदेव-मूरिर्गुणमणीश्वरः ॥ मह्यं प्रमाणसाहित्यकमलां विपुलां ददौ ॥३६॥ भूयो भूमिभुजंगसंसदि मनोनानंद विप्रं घना,-हंकारोद्धरकंधरं सुविदुरं पत्रावलंबप्रदम् ।। जित्वावाद महोत्सवे पुरिबृहद्वारे प्रदोचकै-युक्तीः संघयुतं गुरुं जिनपति यस्तोषयामासिवान् ॥ ३७॥ सम्यगध्याप्यनिष्पाद्य । यश्चाते वासिनो बहून् ॥ चक्रेकुंभध्वजारोपं । गच्छमासादमूर्द्धनि ॥३८॥ श्री जिनपालोपाध्याय-मौलेस्तस्यास्य संनिधौ ॥ मयोपादायि
For Private And Personal Use Only