________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८२) परस्परसहायेन, जैनानां यत्र वर्तनम् ।। जैनानां देववद् भक्ति-स्तत्र संघोन्नतिर्भवेत् ॥३॥ विद्यापुरीयसंघस्य, लक्ष्मीविद्याप्रकाशकम् ।। सर्वशक्तिप्रदं श्रेष्ठं, जयतु ज्ञानमंदिरम् ॥४॥ ज्ञानानन्दप्रदं नृणां, धर्मशास्त्रनिकेतनम् ॥ शान्तितुष्टिकरं भव्यं, जयतु ज्ञानमन्दिरम् ॥५॥ विश्वखण्डेषु देशेषु, महीचंद्रार्कवत् सदा ॥ महावीरप्रभोः पूर्ण, जयताज्जैनशासनम् ॥६॥
लेखकः-विजापुरजैनमहाजनसंघ. विक्रम सं. १९७७ मृगशीर्षशुक्लद्वितीया
ॐ अहं शान्तिः ३ अहं ज्ञानमन्दिरनाद्वारपरलखेललेख..
श्रीजैनज्ञानमन्दिरम् । ज्ञानक्रियाभ्यां मोक्षः॥
पढमं नाणं तो दया । जयतु श्रीमहावीरः, परब्रह्मजिनेश्वरः ॥ अनंतशक्तिसंपूर्णो, ज्ञानानन्दमयः प्रभुः ॥१॥ अनाद्यनन्तकालीनः, सर्वविश्वस्यशासकः ॥ ज्ञानानन्दमयः सत्यो, जैनधर्मः सनातनः ॥२॥ नास्ति ज्ञानसमाशक्ति-र्नास्ति ज्ञानसमं धनम् ॥ नास्ति ज्ञानसमं मित्रं, नास्ति ज्ञानसमं सुखम् ॥३॥ पूर्णानन्दकरं श्रेष्ठं, ज्ञानं विश्वप्रकाशकम् ॥ नास्ति ज्ञानसमं सत्यं, पवित्रमिह भूतले ॥४॥ शिवमस्तु सर्व जगतः परहितनिरता भवन्तु भूतगणाः॥ दोषाःप्रयान्तु नाशं-सर्वत्र सुखी भवन्तु लोकाः ॥५॥
For Private And Personal Use Only