________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री सोमसुन्दरसूरिविरचितम्
श्री सीमन्धरस्वामिजिन स्तवनम् भव पंकजपतज्जन्तु जातोद्धार धुरन्धरौ। स्तुवे जिनौ विदेहस्थौ सीमन्धर युगन्धरौ ॥१॥ स्वामितांकितयूय याः प्रजास्ता भाग्यभाजनम् । भावेनोपासितयुवान् स्तुवे सेवकपुंगवान् ॥२॥ प्रथम शिबिकारूढव्यूढ युवाभिनभिस्तपस्यायाम् । इन्द्रेभ्योप्यखिलेभ्यः प्राधान्य प्राप्यतेस्म खलु ॥३॥ याचकेभ्योपि भद्र स्ताद्वार्षिकगत्यागपर्वणि ।। स्वहस्तदायकीभूतयुवभ्य वाञ्छितावधि ॥४॥ प्रदक्षिणीकृतयुवत् केलिभ्यो भवत्सभाम् । संश्रितेभ्यो विदुः स्पष्ट के न वैनयिकक्रमम् ।।५।। स्वविहारक्रम पावक युवाकमुर्वीमहाविदेहानाम । स्पृहयेद् बुधो न कस्कः सदा वहन्मोक्षनगरपथाम् ॥६॥ अवतीर्णतरुणतरणि प्रभप्रभास्वरयुवासु भूमीषु । तिमिरं न संशयमय तिष्ठति भव्यांगिहृदयगतम् ॥७॥ अन्योन्योपमितयुवां युवां जिनाधीश्वरौ विजेजयाथाम् । आव्योमसोमसूर्य महाविदेहाभरणभूतौ ॥८॥ सीमन्धर प्रभु युगन्धर नामधेयो
भक्त्या स्तुतौ जिनवरौ युगपन्मयेति । अत्राप्यवाप्तजनुषः सुकृताशिष त्वाम्
दत्तां मम प्रमदतो नमतोनुवेलम् ॥९॥
For Private And Personal Use Only