________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
अथ श्री शीलरत्नसूरिकृतं
श्री सीमन्धरस्वामिनोऽष्टकम् कल्याणलतासुवसन्तर्नु, सुरभासुरभासुरभावनतम् ।
सीमन्धरजिनमतिमधुरगिर, नम काममकाममकामहरम् ॥१॥ क्रियते स्तवतस्तव येन समातारसता रमतारसना ।
सफला तमाम महीवलयासमहं समहं समहं कलया ॥२॥ गुरुगर्वमसौ हरतात् तपनाच्छविदेह विदेहजनः । जिनपं सुखयन् ननु मोहकिरा, सितया सितया सितया स्वगिरा ॥३॥ रसना हि परत्र कृते रमते, मम नाममनाममनागपि ते ।
इतरत्र यिकी तु धृति प्रणते, सुरसालरसालरसा लभते ॥४॥ त्वरते मम हृद् भजनाय भवत्पदयोरुदयोरुदयो (पि) न च ।
त्वमुपायमधीश ! तदाप्तिकर', वद भावदभावदभाग्यहरम् ॥५॥ किलकर्म पुमांस्तव रुच्यरवैरसदस्य सदस्य सदस्यति वै ।
धन वज्जलदस्य जलैः सुचिर, समता समता समतापभरम् ॥६॥ तव भक्तिरिहापि तमांसि गतेपिराजपराज ! पराजयते ।
अत एव बुधैर्भवतोऽत्र कृतां जपराय पराय परायणता ॥७॥ भवते हरति स्तवनाम्नि ममा, भवमा भवमा भवमालिसमा ।
शममुत्र भजेय भवच्चरणभ्रमरोहमरोहमरोहगुण ! ॥८॥
For Private And Personal Use Only