________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६९
(४)
श्री त्रिकालजिन स्तवनम्
(अनुष्टुप) येऽतीता वर्तमाना ये भाविनो ये महीतले । सर्वे श्री जिनपाः पान्तु, माममो भववारिधेः ॥१॥ तदीयो गोष्पदीभूयादपारो भवसागरः । वसन्ति मानसे येषां, जिना हंसा इवानिशम् ॥२॥ संसारकुहरे पातौ, भविता न कदाचन् । तेषामाहतपादानां, ये सदा भक्तिकारिण ॥३॥ भवनीरधिशोष - स्तैरकारि तरसा ध्रुवम् । एकशोऽपि जिना येषां, दृष्टिगोचरमाश्रिताः ॥४॥ संसारकूपगेश्वभ्रे, जना दीप्रनखांशवः; । भवन्तु पततो रज्जुवदालम्बनदा मम ॥५॥
॥ श्री विंशतिजिनस्तवनम् ॥ वन्दे सीमन्धरं देवं युगन्धरं जिनेश्वरम् । बाहुं त्रैलोकयनेतार' सुबाहु पुरुषोत्तमम् ॥१॥ सुजातं नौमि सज्जातं स्वयंप्रभं रविप्रभम् । वृषाभाननमानौम्यनन्तवीर्य जिनोत्तमम् ॥२॥ विशालं श्रीलतासार सूरप्रभं जगत्प्रभुम् । वज्रधर धराधारं नुत चन्द्रानन जिनम् ॥३॥ चन्द्रबाहु लसद्बाहु भुजङ्ग भुवनाधिपम् । इश्वर श्री धराराध्य नेमिप्रभ प्रभु स्तुमः ॥४॥ वीरसेनजिनो जीयान्महाभद्रः सुभद्रकृत् । चिर देवयशोदेवोऽजितवीर्यो जिताहितः ॥५॥
For Private And Personal Use Only