________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५) विंशति विहरमाण जिन चैत्यवन्दनम् । सीमन्धर स्तौमि युगन्धरं च, बाहु सबाहुं च सुजातदेवम् । स्वयंप्रभं श्री ऋषभाननाख्य-मनन्तवीर्य च विशालनाथम् ।। सुरप्रभ वनधर च चन्द्राननं नमामि प्रभुभद्रबाहुम् । भुजङ्गनेमिप्रभतीर्थनाथा - वथेश्वर श्री जिनबीरसेनम् ॥ स्तवीमि च महाभद्, श्री देवयशसं तथा । अर्हन्तमजितवीर्य, वन्दे विंशतिमहंताम् ।।
(१६)
(उपजाति-वृत्तम्) सुश्रावक चंपकलाल काळीदास हरडे कृत
श्री विशंति विहरमाणजिननामस्तवः ॥ सीमन्धरेश युगमन्धरं च, बाहुँसुबाहुं गुणमन्दिरं च । सुजातनाथ सुरनाथ-सेव्यं, स्वयंप्रभं स्तोमि सुरप्रभं च ॥१॥ चन्द्राननाख्यमृषभानन च, श्री चन्द्रबाहुं च भुजङ्गमीशम् अनन्तवीर्याजितवीर्यनाथौ, नमामि नेमिप्रभभीश्वरं च ॥२॥ विशालदेव जिनवीरसेन-महर्निशं देवयशो जिनेशम् । श्रीमन् महाभद्रमनन्तसौख्य वन्दे सदा वज्रधर जिनेन्द्रम् ॥३॥
(अनुष्टुप) विहरन्तो जिना एते महाविदेह-मण्डनाः । भवेयुर् भन्यजीवानां, कौटिकल्याणदायकाः ॥४॥ पंचशतधनुर्माना - "चम्पक" युतिदेहिनः । जिनाः स्युः सवसत्त्वानां, कोटिकल्याणदायकाः ॥५॥
For Private And Personal Use Only