________________
Shri Mahavir Jain Aradhana Kendra
३२
www.kobatirth.org
भ्रान्तस्तीर्थानि दृष्टस्तवं मयैकरतेषु तारकः, तत्तवाङ्घ्रौ विलग्नोऽस्मि, नाथ ! तारय तारय. भवत्प्रसदनैवाह मियतीं प्रापितो भुवम् औदासीन्येन नेदानीं तत्र युक्तमुपेक्षितुमज्ञाता तात ! त्वमेवैक-रत्वत्तो नान्यः कृपापरः; नान्यो मत्तः कृपापात्र - मेधि यत्कृत्यकर्मठ:.
,
Acharya Shri Kailassagarsuri Gyanmandir
सप्तदशप्रकाशः
>
2
स्वकृतं दुष्कृतं गर्हन, सुकृतं चानुमोदयन : नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः . मनोवाक्कायजे पापे, कृतानुमतिकारितैः; मिथ्या मे दुष्कृतं भूया दपुनः क्रिययान्वितम्. यत्कृतं सुकृतं किञ्चिद्, रत्नत्रियगोचरम्: तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यप. सर्वेषामदादीनां यो योऽहत्त्वादिको गुण; अनुमोध्यामि तं तं सर्वं तेषां महात्मनाम. त्वां त्वत्फलभूतान् सिद्धा स्वच्छासनरतान्मुनीन. त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः. क्षमयामि सर्वान्सत्त्वान्, सर्वे क्षाम्यन्तु ते मयिः मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे. एकोऽहं नास्ति मे कश्चिन् न चाहमपि कस्यचित्ः त्वत्रिशरणस्थस्य, मम दैत्यं न किञ्चन. यावन्नाप्नोमि पदवीं, परां त्वदनुभावजाम: तावन्मयि शरण्यत्वं मा मुञ्च शरणं श्रिते.
For Private And Personal Use Only
८
४
ta
६