________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इच्छकारि भगवन । पसाय किच्चा मम मंत्त वायणं देहि.
श्री तीर्थङ्कर-गणधर-प्रासादाद् एषः योगः फस्तु, ॐ ह्रीं श्री अर्ह श्री सीमन्धरस्वामिने नमः ह्रीं स्वाहा । असितगिरि-सम-स्यात कज्जलं सिन्धुपात्रे, सुरतरुवर शाखा, लेखिनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सर्वकाल', तदपि तव गुणानामीश ! पारं न याति ॥ न स्वर्गाप्सरसां स्पृहा समुदये, नो नारकोच्छेदने, नो संसारपरिक्षतौ न च पुनर्निर्वाण नित्यस्थिती त्वत् पाद द्वितय नमामि भगवन् ! किनत्वेककं प्रार्थये त्वद्भक्तिर्मम मानसे भवभवे भूयाद् विभो ! निश्चला ॥
कोर्ति नियो राज्यपद सुरत्वं, न प्रार्थये किञ्चन देव देव ! मत प्रार्थनीयं भगवन् ! प्रदेय, त्वद् दासतां मां नय सर्वदापि ।। आशातना या किल देव देव !, मया त्वदर्चा रचनेऽनुसकता । श्रमस्व तां नाथ ! कुरु प्रसाद, प्रायो नराःस्युः प्रचुर प्रमादाः ।। ॐ आज्ञाहीनं क्रियाहीनं, मंत्रहीनं च यत् कृतम् । तत् सर्व कृपया देवाः ! क्षमध्वं परमेश्वराः ॐ आह्वान नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वरः ! उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ।। सर्व मङ्गल माङ्गल्य, सर्वकल्याण कारणम् । प्रधानं सर्वधर्माणां, जैन जयति शासनम् ॥
For Private And Personal Use Only