SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org प्रफुल्लपङ्कजे राज-सरोवरविराजितम् । विविधैर्भूरुहाः कीदृशं शोभते वनम् अहो ! रथाङ्गयुगलं स्नेहपञ्जरपूरितम् । जीवितव्यप्रवाहेण सङ्गतं दृश्यते मिथः अत्र वारितरङ्गेषु सहोभौ तरतः सुखम् । तत्र तौ सैकते शुभ्रे सार्द्ध विश्राम्यतो मुदा सहैवाऽन्यत आकाशे डयते युगलं तयोः । इतः कमलपुञ्जानां मध्यदेशे सुवासिते तिष्ठतोऽनुगतस्नेहावन्योन्याकाङ्क्षया युतौ । दम्पती सर्वदा सार्द्ध सर्वतो बद्धसौहृदो चक्रवाकस्य कण्ठोऽयं स्वचातिमनोहरः । पलाशपुष्पसङ्कायो वर्णोऽस्ति चास्य लोहितः चक्रवाकी मृदुहूस्व-कण्ठी स्वकीयवर्णतः । कोरण्टकुसुमाकारा कीदृशी भासवेऽद्भुता चक्रवाकं प्रियं स्वीय- मनुयान्तीयमुत्तमम् । नाटयन्ती गर्ति रम्यां मोदमाना विराजते द्विरदोऽयं मदोन्मत्तश्चित्रितावयवोऽद्भुतः । कुञ्जराणामसौ मुख्यो दृश्यते वनचारिणाम् वृक्षपण्डेन दुर्गम्ये विपिने निजवर्त्म च । विधातुं भूरुहां शाखा खोटयन्त्रजति क्षितौ नद्यां स्नातुमना लुब्धो नीचैरवतरत्यपि । ततो भव्यशरीरोऽयं बहिर्निःसरति द्विपः तस्मिवसरे तत्र व्यrat लक्ष्यीकरोति तम् । शरेणाऽऽलीढसंस्थानः कर्णान्ताकष्टकार्मुकः शरं क्षिपति तत्पथादद्भुतं तच्च चित्रितम् । सकलं सुन्दराकारं कलानैपुण्यसंयुतम् इतः शाबिफलाधार - पद्मतन्तुसमानया । प्रभया रक्कया दीप्यन् चक्रवाकोऽयमम्बरे For Private And Personal Use Only ॥ ७४८ ॥ ॥ ७४९ ॥ ।। ७५० ॥ ॥ ७५१ ॥ ।। ७५२ ।। ॥ ७५३ ॥ ॥ ७५४ ॥ ॥ ७५५ ।। ।। ७५६ ॥ ।। ७५७ ॥ ।। ७५८ ।। 11148 11 ॥ ७६० ॥ ॥ ७६१ ॥ Acharya Shri Kissagarsun Gyanmandir 8088882038888888
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy