________________
ShriMahavir JanArchanaKendra
AcharyaShakalinsagarsunGvanmandir
मीवरंगवती
॥२९॥
XXXSESXXXXXXXBEEEEEEEEEX
उयतेऽयमिषुस्तीक्ष्णो विध्यति तमनागसम् । निरीक्ष्य चक्रवाकीयं विलपत्यतिदुःखिता यतोऽनेन पिशाचेन व्याधेन स्वपतेः प्रियम् । जीवनं स्नेहबल्ली च नाशिता क्रूरचेतसा विलपन्ती भृशं चक्रवाकीयं निजदुःखतः । अनुगच्छति मर्चारं चिताग्नो जुह्वती वपुः उत्सवेऽद्यतने दृश्य यत्किञ्चिद्विद्यते खलु । तन्मध्येऽमूनि चित्राणि हृद्यानि प्रतिभान्ति मे परन्त्वियं चित्रमाला वीक्षितव्या क्रमान्मया । सकला सावधानेन सुन्दराकारशालिनी वदनेवं स मर्त्यस्तु शोभनाङ्गोऽतिकौतुकात् । तानि चित्राणि पश्यन्सन मूच्छितो न्यपतद्भुवि दण्डे जीणे यथा भूमौ ध्वजः पतति सत्वरम् । तथैव धरणीपीठे लुठतिस्म स सुन्दरः चित्राणि वीक्षमाणास्तत्सुहृदस्त्वेकदृष्टिभिः । तल्लीना नैव तत्पातं जानन्ति स्म विचक्षणा: क्षणा मूच्छितं भूमौ पतितं वीक्ष्य दुःखिताः । उद्धृत्य दूरतस्तेऽपि निन्युः स्थानं सुशीतकम् विचित्राणि सुचित्राणि निरीक्ष्यैव विचेतनः । संजात इति विज्ञाय तस्मात् दूरतो व्यधुः कदाचित्सव पुरुषरूपेण तव वल्लभः । चक्रवाको भवेच्चैव सिद्धथेत्तव मनोरथः संप्रधार्येति वत्पृष्ठे गता तत्वबुभुत्सया । यदेष चेतना प्राप्तो रुद्धकण्ठस्तदाऽवदत रे प्रिये ! मन्महाऽऽनन्ददायिनीक गताऽधुना । नीलोत्पलदलश्याम-नयना वं शुभाकृतिः यदैकदा चक्रवाक-जन्मनि स्नेहिनो वयम् । गङ्गाकल्लोलमङ्गेष्व-मोदामहि तदाऽभवः
॥ ७६२ ॥ ॥ ७६३ ।। ॥७६४॥ ॥ ७६५॥ ॥ ७६६॥ ॥७६७॥ ॥ ७६८॥ ॥ ७७९॥ ॥ ७७०॥ ॥ ७७१॥ ॥ ७७२॥ ॥ ७७३ ॥ ॥ ७७४॥ ॥ ७७५॥
॥२९॥
For Private And Personlige Only