________________
ShriMahavir JanArchanaKendra
Acharya:shkailassagarsunGyanmandir
SEXXXXXXXXXXXXXXXXXXXXXXXX
तदा सा मां जगादेति भगिनि ? त्वत्पतिर्मया । यथोपलक्षितस्तत्त्वं शृणुष्व कथयामि ते त्वया परीक्षितं यद्यत् सूचनं सचिताऽभवम् । तत्सर्व हृदि संस्थाप्य गृहीवालेख्यकाऽचलम् वेदिकायां सुचित्राणि संस्थाप्य तत्र तस्थुषी । तावत्कुमुदसन्मित्रमुदितो रात्रिवल्लभः विस्तारयन् सितं तेजः सर्वत्र धरणीतले । कामदेवप्रियश्चन्द्रः शनैरारोहदम्बरम सरःपयसि पाथोजे प्रफुल्लमिव निर्मले । नमःपटे शशाङ्कः स दीप्यति स्म विकस्वरः तस्मिन्नवसरे लोका राजान इव वर्मनि । रथारूढा धनैर्मचा विहाँ निर्गता बहिः नैशिकाऽलङ्कति द्रष्टुं रमणीयतरां मुदा । सुन्दरं रथमारूढा निरीयुरातुराः स्त्रियः युवानो युवतीमिश्च सार्क कुतकरग्रहम् । मिथो वक्षोभिरापीड्य प्रचेलुर्मुदिताशयाः अमन्दाऽऽनन्दमापनो जनवातः परस्परम् । मिलित्वा स पुनः पश्चादलित्वा सह जग्मिवान् वर्षायां पयसामोपो नदीरूपधरो यथा । महोदर्षि जनवातो राजमार्गमुपेयिवान् उमता ये जना आसन् पश्यन्तिस्म सुखेन ते । चित्राणि वामनाश्चात्र पादाङ्गुष्ठाश्रिताः श्रमात बहवः स्थूलवपुषः परस्परनिपीडनात् । कष्टध्वनि प्रकुर्वाणा व्याकुला जज्ञिरे भृशम् विचरन्तो जनाः केचि-द्रतां रात्रि मनस्विनः । नाऽविदन् चित्रितस्वान्तावित्राणां वीक्षणे रताः कियन्तष प्रदीपानां वर्तिको ज्वलितामपि । अर्द्धप्रायां व्यलोकन्त निजदृष्टिमिरुन्मदा:
॥७२०॥ ॥ ७२१॥ ॥ ७२२॥ ॥ ७२३॥ ॥ ७२४॥ ।। ७२५॥ ॥ ७२६॥ ॥ ७२७॥ ॥ ७२८॥ ॥ ७२९ ॥ ॥ ७३०॥ ॥ ५३१॥ ॥ ७३२॥ ॥ ७३३॥
SEXXXSIXHXXXXXXXXXXXSREXXXX
For Private And Personalise Only