SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ॥ ६९३॥ ॥ ६९४ ॥ ॥६९५॥ XXXXXXXXXXXXXXXXXXXXXX ॥६९७॥ ॥ ६९८॥ ॥ ६९९॥ अन्यस्यैतादृशं स्वमं यद्यायाति निशामुखे । तदा निजेपितं वित्तं प्रामोस्येवाश्वपत्नतः प्रियाङ्गजे ! तवैतेन शुभस्वमेन सूचितम् । सप्तवासरमध्ये हि सद्भाग्यं प्रकटिष्यति मपितुरिति वाक्यानि निशम्य मम चेतसि । विचारोऽमूदीष्टं मे पत्युर्नान्यत्रवेदिह मदीयं गुप्तवृत्तान्तं पितृम्यां गोपितं मया । सारसिकाऽऽगमं तस्मात् प्रतीक्ष निशि संस्थिता पुनः पुनर्विचारं तं कुर्वन्ती जिनपुङ्गवम् । ध्यायन्त्यहं समुत्थाय विष्टराच्छुद्धमानसा विधाय नैशिकं शुद्ध प्रतिक्रमणमाईतम् । आवश्यकक्रिपाकाण्डं विहितं विधिना मया प्रयोदयेऽथ सञ्जाते दन्तधावनमाचरम् । पितृभ्यां च वियुज्याई प्रासादोपर्यगां शनैः - प्रासादतलमारुह्य चिन्तितस्वमनोरथा । दिगन्तानीक्षमाणाऽई समय व्यत्यवाहयम् तदन्तिमविभागे च चित्राणि चित्रितान्यहो । मनोहराणि-रत्नादिखचितान्पभवन् खलु आशावद्धं शरीरं मे वित्रुट्याइपि नापयत् । चिन्ताग्रस्तमनुष्याणां केवलाशा हि जीवनम् अथाऽस्मिन्समये भानुर्मानुभिर्योतयन् जगत् । उदयमाससादाशु साक्षी निखिल कर्मणाम् पलाशपुष्पसंकाशा रश्मयस्तेन भूतले । प्रसारिताः प्रभावन्तो लोहिताश्च परार्थिना दूरदूरतरं भूमि-मण्डलं केसरद्युति । बमासे भासमानाऽऽभ जन्तुमोदविधायकम् जगत्प्रबोधयामास सकलं भानुरुच्छ्रितः । प्रकाशं प्राप्य को लोके प्रमाद सेवते जनः ॥७०१॥ ॥७०२॥ ॥ ७०३॥ ॥ ७०४॥ ॥७०५॥ ॥७०६॥ For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy