________________
ShriMaharveJain Aradhanekendra
www.kobahrth.org
Acharya th
gan Gyaan
ESEROSXX8388SEXUXXXX
श्रमाच्छेदारक्षताहाहाच्चतुर्धाऽघातकज्वरः। कामाद् मीतेः शुचो रोषाद्विषादौषधगन्धतः अभिषङ्गज्वराः षट् स्युरेवं ज्वरविनिश्चयः । भवन्ति विविधा भेदा व्याख्यास्यन्ति चिकित्सकाः भोजनान्तरं सद्यःसमायाति ज्वरो यदिः । स्नेहो हेतुर्मवेत्तत्र, कफ: सैव निगद्यते यदि पाकक्रियाकाले ज्वरातिरुद्भवेत्तदा । तद्धेतुरन्य एवाऽस्ति, तत्पित्तमिति कथ्यते वचनानन्तरं यहि ज्वरः प्रादुर्मवेत्तदा । स वातहेतुकोऽपि स्यात् त्रिधाऽयं परिकीर्तितः यद्येकीभूतमत्युग्रमिदं हेतुत्रिकं नृणाम् । तदाऽनेकान्महारोगान् जनयत्यचिरेण वै दोपत्रये तथाभूते द्वित्राणि लक्षणानि च । दृश्यन्ते रुग्णदेहेषु सन्निपात इति स्मृतः ज्वरभेदस्तथा यस्त्वागन्तुक इत्युदीर्यते । कामश्रमादितद्भेदा दोषव्याकोपकारकाः "कामजे चित्तविभ्रंशस्तंद्राऽलस्यमभोजनम् । हृदये वेदना चास्य गात्रश्च परिशुष्यति खेदो यष्टिप्रतोदादिप्रहारेणाऽस्त्रघाततः । तरुपातादि हेतोश्च प्रादुर्भवति देहिनाम् युष्मत्पुत्र्यां ज्वरस्यैवंविधानि लक्षणानि च । विनिर्णयाय नो सन्ति विगताऽऽधिर्भवाऽधुना निरामया सुता नूनम् शकटाघातदुःखिता । आरामे भ्रमणाच्छ्रान्ता तेन मन्देयमीक्ष्यते तस्माच्च ज्वरितेवासो दृश्यते मन्दचेष्टिता । श्रम एवास्ति तद्धेतुः कारणं नान्यदिष्यते कदाचिन्मानसी काऽपि घटेताज व्यथा किल । समुत्पद्येत सा जाने केनचिच्छोकहेतुना
॥५१२॥ ॥५१३ ॥ ॥ ५१४॥ ॥ ५१५॥ ॥ ५१६॥ ॥ ५१७॥ ॥ ५१८॥ ॥ ५१९॥ ॥५२०॥ ॥ ५२१ ॥ ॥ ५२२॥ ॥ ५२३॥ ॥५२४॥ ॥५२५॥
For Private And Personale Only