________________
ShriMahavir JanArchanaKendra
Achahn
sagan Gyaan
KXXXBE
किञ्चिदावश्यक कार्यमागतं दैवयोगतः । तस्मादिदानी गच्छामि गृह पुत्रीसमन्विता
॥४८४॥ एवमुक्त्वा तयाऽऽनन्दः सकलोऽत्यज्यत क्षणात् । चिन्तातुरा न जानन्ति सुखमिन्द्रियगोचरम् ॥ ४८५॥ अर्थातुराणां न सुहनबन्धु , कामातुरागां न भयं न लजा। चिन्तातुराणां न सुखं न निद्रा, क्षुधातुराणां नवपुर्ने तेजः ४८६ परन्तु प्रमदाः सर्वाः स्वस्वकर्मणि योजिताः । आनन्दाय तया तासां मद्वार्ता न प्रकाशिता
॥ ४८७॥ रक्षकान् किंकरांश्चैव कञ्चुकिनोजरोषगान् । स्वस्वकर्मणि संयोज्य स्वल्पस्वजनसंयुता
॥४८८॥ कियहाससमेता सा मां समादाय सत्वरम् । समागमनिरुत्साहा जननी स्वीयपत्तनम्
॥ ४८९॥ गृहमागत्य मद्वस्त्रालंकारांस्त्वरितं सखी । दायाऽस्थापयत् पेटामध्ये वेदनयादिता
॥ ४९.॥ ततोऽहं विमनीभूय पर्यके वस्त्रमंडिते । गृहोचितानि वासांसि परिधायाऽस्वपं स्वतः
॥ ४९१ ॥ मदीयजननी प्राह जनकं भृशदुःखिता । अस्मत्सुतां शिरःशूला गृहीत्वाऽई समागता
॥४९२॥ पीब्यते मस्तकं तस्याः, तस्मानितिधामनि । रक्षिव्याऽधुना सा तु, तेन शान्तिविपति ॥ ४९३ ॥ सप्तपर्णतरुदृष्टः प्रफुल्लकसुमो मपा । प्रयाताऽहमिती यस्मै तन्मे संपूर्णतामगात्
॥ ४९४॥ नारीगणोऽस्तु खिन्नः सन्नुत्सवाद्विरमेदिति । अनिवेद्याऽऽगताह द्राक् जाताऽस्मि व्यषिता भृशम् ॥ ४९५॥ निशम्य वचनं मात्रा गदित जनको मम | विषण्णमानसो जज्ञे, जातचिन्तो विशेषतः ।
॥४९ ॥ सुतेभ्योऽपि यतः स्नेहो द्रढोयान् मय्यवर्तत । अश्वदभित्रचित्तोऽपि दुहितृवत्सलो हि सः
॥४९७।
For Private And Personlige Only