________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
॥ ४५७॥ ।। ४५८ ॥
3I3SXEEEEEEEEEEEEEER
यदि मद्वाञ्छितं नैव सेत्स्यति चेदुपायतः । एकोऽवलम्बभूतो मे हृदयक्लेशनाशनः जिनेश्वरेण यः प्रोक्तो जगदुद्धारहेतवे । देहिनां सार्थवाहोऽस्ति मार्गः सैव सुखावहः "दहति मदनवहिर्मानसं तावदेव, भ्रमयति तनुभाजां कुग्रहस्तावदेव । छलयति गुरुतृष्णा राक्षसी तावदेव, स्फुरति हृदि जिनोक्तो वाक्यमन्त्रो न यावत् ।। तन्मार्ग साधितुं साध्वी भविष्याम्येव निश्चितम् । यतः सारतरो मार्गों जिनेन्द्रेण निरूपितः सदा संसारिणां पीडा जायन्ते विरहोद्भवाः । ता यतो विनिवर्तन्ते तन्मार्गगमनोत्सुका भवदुःखकर जन्म मरणक्लेशमुत्कटम् । त्यक्त्वाऽनन्तसुखं प्राप्तुं यतिध्ये जिनदीक्षिता संसारोऽयं विचित्रोऽस्ति भूरिदुःखाकरोऽखिलः । आपातरमणीयो हि दुरन्तपरिणामकः के संसारसुखाऽक्ता मोक्षसौधं समाश्रिताः । वैराग्यरङ्गरक्तो हि शिवमार्गमनुव्रजेत् संसारसागरं तर्नु वीतरागप्रदर्शितः । पोतायते धर्मः एव शुभः शाश्वतः शर्मदः अतिस्नेहान्मया सख्य विश्वासेन निवेदितम् । सकलं निजवृत्तान्तं मूलादारभ्य दुःसहम् सारसिका विशुद्धात्मा मयि स्नेहेन वत्सला । विलापं कुर्वती वक्तुमारेभेऽश्रुमुखाम्बुजा रे ! रे ! सखि ! वियोगस्य भर्तुरते दुःखदायिनी । श्रोतव्या हा ! ममाप्यासीद्वार्ता दुर्भाग्ययोगतः कृतकर्मविपाकोत्र फलानि विषमाण्यहोः । प्रसूते प्राणिनां नष्टचेतसां जननान्तरे
॥४५९ ॥ ॥ ४६॥ ॥ ४६१ ॥ ॥ ४६२॥ ॥ ४६३ ॥
KISROXXXXXXXXXXXXXXX338SEX
॥ ४६६ ॥ ॥ ४६७॥ ॥४६८ ।। ॥ ४६९॥
For Private And Personlige Only