________________
Shri Mahavir Jain Aradhana Kendra
www.batirth.org
मदीयं मुखमायान्त्यस्ता मया वारिता अपि । मरुञ्च ललतावन्मे करं व्याधूय संश्रिताः तत्पीडया मया चक्रे, पूत्कारस्य परम्परा । निवृत्तगमना चाहं, व्यग्रचिचाऽभवं क्षणात् सरधाध्वनिभिश्चैव, विराधैर्वयसां तथा । मदीयोद्घोषणां काऽपि नाऽशृणोत्सहचारिणी अश्वफेनाऽधिकनिग्धोत्तरीयाञ्चलतो मया । मुखमाच्छादितं तेन, निवृत्ता मधुमक्षिकाः इतस्ततः प्रधावन्त्या - रत्नालङ्कृतयो मम । विशीर्य त्रुटिताः काचित् पतन्ति स्म घरातले आरोपिताऽनङ्गाबाणा, मञ्जुला कटिमेखला । कटिभ्रष्टाऽभवत् क्वाऽपि, वनोद्देशे मनोरमे तथाऽपि वेदना व्यग्रा, भूषणान्यस्मरन्त्यहम् | कदलीमण्डपं भव्यं धावित्वा प्राविशं क्षणात्
।। २६५ ।।
॥ २६६ ॥
।। २६७ ।।
।। २६८ ।।
॥ २६९ ॥
॥ २७० ॥
॥। २७१ ॥
२७३ ॥
तत्र स्थिता सारसिका, सखी मे सहचारिणी (हृदयङ्गमा) । विलोक्य मां स्निग्धनेवाः, सान्त्वयामास सत्वरम् ॥ २७२ ॥ कथितश्च तथाऽद्याऽपि वल्गिता मधुमक्षिकाः । सखि ! चिन्ता त्वया काचित् नैव कार्या तथाविधा ॥ यं दृष्टुमागताः सर्वा वयं विस्मितमानसाः । तस्य सप्तच्छदस्याऽऽशु, सन्निधौ संगता मुदा सरोजगन्धहारिण्यो-नेकशो मधुमक्षिकाः । तस्मिन् तरुवरे तस्थु-रुत्पतन्त्यो मुहुर्मुहुः पटलं पूर्णचन्द्राभं त्यक्त्वैता मधुमक्षिकाः । शारदानि सुमान्यत्र समागत्य समाश्रिताः मत्सार्थवनिता यास्तु, पुरा तत्र गतास्तरौ । ताभिस्तत्पुष्पमुग्धाभिस्तच्छाखा अपि खण्डिताः मत्सरूपाः स्कन्धमाजग्व्य, वामहस्तेन चाग्रतः । शनैः शनैरहं याता, लक्षीकृत्य सरोवरम्
11 208 11 ॥ २७५ ॥
॥ २७६ ॥
।। २७७ ॥ ३। २७८ ।।
For Private And Personal Use Only
IXTEEEEEEEEEEEEEEERS
Acharya Shri Kasagarsun Gyanmandir