________________
www.kobabirth.org
॥१८१॥ ॥१८२॥ ॥१८३ ॥ ॥ १८४॥ ॥ १८५॥ ॥ १८६ ।।
भूमि वपनकालञ्च, बीजं बीजाङ्करांस्तथा । वृष्टिमुत्करमाश्रित्य, भवन्ति वृक्षजातयः इत्थं विचारणां कृत्वा, कलादशः सुमेऽखिले । समुत्पादयति स्वैरं, नवीनवर्णकाऽऽकृती: परन्स्वस्मिन्सुमे नैत-सम्भवत्यनुमानकम् । यतोऽहं निश्चयाद्वेधि, साप्तपर्णमिदं समम् पीतवर्णोऽस्य नैवाऽस्ति, परं पदरजः कणाः । संलग्नाम्तेन तत्पुष्पं, किश्चित्पीतमभृमनु तातेनोक्तं मदीयेन, वाटिकामध्यवर्तिनः । सप्तच्छदस्य कुसुमेऽब्जरजःसंभवः कुतः तात ? घेतस्य मन्धोऽयं, वर्तते बहुधाऽमलः । तत्राऽप्यम्बुजसद्गन्धो ज्ञायते बहुलः स्फुटः तस्मादनुमितिः कार्या, सितीभूतमिदं सुमम् । पङ्कजस्य रजोव्याप्त्या, पीतवर्णमभूल्पितः ? सप्तच्छदसमीपेवाऽमविष्यच जलाशयः । शरद्यस्यां पयोजानि, बहूनि स्फुटितानि वै पीतेन रजसा तत्र, रक्तेषु कमलेषु च । मधुस्वादरता भूरि-सरघाः संस्थिताः खलु उड्डीय तास्ततो यान्त्यः सप्तच्छदसुमे सिते । निजपक्षेषु संलग्नान रेणून क्षिप्त्वा गताः पुरः अनेनैव क्रमेणेदं पुष्पं पीतप्रमामयम् । जातमस्ति न चाऽन्योत्र, संभवो विद्यते पितः। मदुत.वचनस्याऽस्य, प्रतीतियों भविष्यति । अस्माकं पुष्पलाविन्याः, कथनेन पितः ? स्फुटा मदीयं वचनं श्रुत्वा, स्पृष्ट्वा करतलं पिता । माले मे प्रेमतोऽवादीच्छोभनं तदुदीरितम् । मयाऽप्यनुमितश्चैत-त्तथापि त्वां परीक्षितुम् । अयं प्रश्नो मयाऽकारि, बुद्धिसाध्योऽतिकौतुकात
॥१८८॥ ॥१८९॥ ॥१९ ॥
॥ १९२ ॥ ॥ १९३ ॥
For Private And Personale Only