SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJain AradhanaKendra Acharya:shaKailassagarsunGyanmandir भीतरंगवती कथा 来来来来来来来 सन्ति यस्यां दण्डकानि, विशालानि बहूनि च । सम्बन्धा विविधार्थाश्व, समासा दुर्घटास्तथा ॥९॥ श्लेषाऽलङ्कारसंमिश्र-वाक्यानि बहुधाऽभवन् । गद्यपद्यात्मका भावा-दुर्योधा मिश्रभाषया ॥१०॥ यद्यपि विदुषां बोधो-जायते कठिनात्मनाम् । ग्रन्थकारगिरां सुष्टु, दुर्ग्राह्यो मन्दचेतसाम् ॥ ११ ॥ तस्मादयं प्रयासो मे, जिज्ञासुजनताऽऽग्रहात् । आकाङ्क्षा पूरयितव्या, जिज्ञासूनां सुसाधुभिः संस्कृता सुघटाशैली, स्फुटार्था भव्यभाषया । रचितेयं सुखायैव, क्लिष्टशब्दविवर्जिता ॥१३॥ सुभाषितं सर्वत एव शस्यते, कवीन्द्रवारैर्मुदितस्वभावैः । क्लिष्टार्थमात्र रचितं सुकाव्यं, केचिद्धि जानन्ति विशेषविज्ञाः।।१४॥ विशेषावश्यके भाष्ये, निर्दिष्ट स्वेन निर्मिते । श्रीजिनभद्रगणिना, तरङ्गवतीनामकम् ॥१५॥ श्रीहरिभद्रसूर्याद्या-ग्रन्थारम्भे तदीयकम् । स्मरणं चक्रिरे लोके, तुष्टिपुष्टिविधायकम् ॥१६॥ क्लिष्टेयं प्रकृतानाच, विदुषां मोददायिनी। विस्तृतत्वाजनानां वै, सर्वेषां न हितावहा ॥१७॥ ज्ञात्वेति नेमिचन्द्रेण, मरिणा सरला नवा । रचिता प्राकृता लोके, संक्षेपागुचिदायिनी ॥१८॥ धीमद्भयो रोचते नेयं, क्लिष्टा च मन्दचेतसाम् । तस्माद्गीर्वाणवाचेय, रच्यते हितकारिणी ॥ १९ ॥ पादलिप्ताचार्यजन्मभूमिवर्णनम्। स्वर्गपुरी समानाऽस्ति, विशाला कोशलापुरी । चतुर्वर्णजना यस्यां, वसन्ति धर्मतत्पराः ॥ २०॥ जैनधर्मरताः सर्वे, देवपूजापरायणाः । गुरुणामद्भुतां भक्ति, कुर्वन्ति स्म प्रियान्विताः ।।२१।। ॥१ ॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy