________________
tanah satunya
बीवरंगवती
कथा
KEEEEEEEEEEEEEEEEEEKREET
राजगृहमिदं धन्यं नगरं धार्मिकैर्युतम् । षष्ठपारणकं कर्तृ भिक्षार्थ समुपागता
॥१६॥ श्रेष्ठिनि ! कथितं सर्व तव प्रश्नानुसारतः । इहाऽमुत्र समुद्भूतं सुखंदुःखं च वर्णितम् परिणामे च यज्जातं तत्सर्व सुनिवेदितम् । कोऽत्र लंघयितुं शक्तो बलीयो दैवशासनम् हरिश्चन्द्रोऽपि राजेन्द्रश्चण्डालं यदसेवत । तेन सर्वत्र देवाज्ञा दुर्लध्या सद्भिरादृता
॥ १६७॥ तीशा अथ चक्रवर्तिनिवहा वासुदेवादयः, सर्वे ते किल देवशासनवशीभता इहोवीतले । तत्के वा बलवत्तरा न कुरुते दैवं च यान्स्ववशे, दुर्लध्यं किज दैवशासनमिदं शक्तश्च को लंघने' ॥१६८॥ तमात्र विस्मयः कार्यों भवचक्रं हि तादृशम् । तूर्ण तद्विषमं हातुं यत्नः कार्यों विमुक्तये
॥१६९॥ चक्राकारे भवेऽस्मिन्नभिमतविमतादिप्रकारप्रपञ्चे, तत्पान्तस्थक्रमेण स्वविधिवशतयाऽऽयान्ति यान्ति स्वभावात् । सों भावः स्वकीयो भवति परिणमन नात्र शंकाऽवकाशः। राजा रंको मनुष्यः पशुरथ जननी जायते यत्र जाया ॥ १७० ॥ कुत्स्ने तरङ्गवत्येवं, स्ववृत्तान्ते निवेदिते । श्रेष्टिपत्नी मनस्येवं विस्मयेन व्यचिन्तयत् दुष्करं सुकुमार्याऽपि कृतं कर्माऽनया भुवि । अहो ! सुकोमलं वर्म तारुण्यमपि शोभनम्
॥ १७२ ॥ उमे ते व्रतचर्यायाः परौ शत्रू स्मृतौ बुधैः । तथापि धैर्यतो दूरीकृत्य सर्वप्रलोभनम्
॥ १७३ ॥ अगाधमब्धि खमनन्तपारं दारिदैन्यं च तरन्ति धीराः । आरब्धकार्य च समापयन्ति, धैर्य विमा नाऽप्यलभन्त किंचित् ॥
SEXRXXXEKKEKXXXXSXEEEKKER
For Private And Personale Only