________________
श्रीतरंगवती
कथा
अधुना सारसयुमलदर्शनजातजातिस्मृतिःक्षणमपि पति विना जीवितुं न शक्नोमि तचं शरणं मन मम पतिरप्यत्रैव नगरे जातो भवेत् ? । तद्गवेषणार्थ चित्रमालेख्प ते वितरामि । त्वं गत्वा चतुष्के दर्शय । तदनुरोधेन गता सारसिका प्रतिनिवृत्य पद्यदेवाभिधानस्ते पतिरिति निवेदयामास । ज्ञातवृत्ता स्वार्पणपत्रतोऽन्योन्यदृढानुरागे जातेऽपि पितृनिषद्धविवाहकौतुका, विरहमसहमाना स्वयं तमभिससार । तस्याः पतिरपि स्वानुरागिणीतामादाय सहसा जलमार्गेण देशान्तरं प्रतस्थे । तदैव गान्वर्वेण विधिना परिणीय यावद्गगाकूलमवतरति तावत्तौ लुण्टाकदलेन दृष्टौ लुण्टितौ दृढं बदौ कालिकाबलिदानाय गुहायां रक्षितौ । तत्परिचिन्त्य सदैव विचारद्वारा | तयोः पूर्वमवव्याधहस्तमारणादिविलापं श्रुत्वा रक्षकनिषादेन जातजातिस्मृतिना गुहातो विमुच्य निर्भयस्थानावधि सुखेन नीतो ग्राम्य । निवासे कृतविश्रामौ तो, कुल्मापहस्तिः सहसाऽऽगत्य मातापितृविरहदुःखं निवेद्य रथेन गृहं प्रति प्रेरयामास । वासालिके तीर्थे वटं नमस्कृत्य प्रभुवर्द्धमानं स्मरन्तौ पर्यटनेन गृहमासेदतुः । गृहमागत्य मातापितृवन्धुपरिवारमहिष्यादिमिलनानन्तरं सर्वसम्मत्या आनन्देन कालं यापयन्तौ कदाचिन्मुिनिदर्शनं प्राप्य शुद्धभावनयामुनि नवा धर्मपृष्टवन्तौ मुनिश्व गुहामोक्षानन्तरं जातनिर्वेद गृहीतदीक्षं तं निषादमेवमामवगच्छतमिति निजपूर्वजन्मवृत्तान्तं निर्वेदकरणं च सर्वजनोपदेशयोग्यं सर्वजनाय-हितं वात्वा प्रकाशितम् स चायम् । गंगोपकण्ठे रमणीया चम्पानाम नगरी । तस्याः परिसरे विकटा श्वापदसंकुला चित्रविचित्राणां पशूनामाश्रयभूताऽरण्यानी । तत्र व्यवस्थिता व्याधकुटुम्बिनः प्रतिवसन्ति स्मः विचारणीयनीतिकुलाचाराणां विविधधर्मपद्धतिप्रियाणां " परस्परोपग्रह जीवाना" मिनि नीत्याऽन्योन्यसहायमुपयुज्य रक्षणशक्तिसम्पन्नानां तेषामेको युवा बलवान्व्याध एकदिवसे
॥२॥
For Private And Personale Only