________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
RESSXXXXXXXXXXXXXXXXXXXXXX
चिरं स्नेहसुखं भोक्तुमहमेवाऽभवं किल । क्षणोऽप्यभूत्सुदीपों मे वियुक्ताया विषादतः ॥ १८३१॥ मज्जने भोजने सुषाधारणे शयने तथा । अन्य कार्येऽप्यमित्रत्वं धारयन्तौ प्रमोदिनी
॥१८३२॥ धृत्वा माला: सरोजानां सुगन्धिजलवासितौ । तथा सुरमितेलेन मर्दितांगौ च नाटकम्
॥१८३३ ॥ मुहुनिरीक्षितुं यान्तौ सदानन्दमलौकिकम् । अन्वभूव सुनिश्चिन्तौ स्नेहेनाऽभिन्नता जुषौ
॥ १८३४॥ अन्योऽज्यादृतचाटुताकृतनिजत्वान्यत्वविस्मारकं, जात विस्मयवाहकं तदमलं प्रेमातिलोकोचरम् । उत्थानं जिनदर्शनं गुरुनतिः स्नानं जिना_श्रुतिः, शुद्धाहारविहारसान्ध्यविषयः सार्द्ध बमवुः स्वयम् ॥१८३५ ॥ सत्वज्ञानविलोपकं प्रवहतो प्रेमप्रवाहे सतोः, अन्योन्यप्रतिरक्तयो स्तदुभयावस्थानमत्यद्भुतम् । अन्योऽन्यार्थसमर्थसाधनजुषोरेकात्मनो प्रेमिणोः, सर्व कार्यममिन्नमेव भवति प्रीतिप्रतिष्ठापकम् ॥१८३६ ॥ सार्द्ध स्वागतचाटुकारनमनाऽऽश्लेषादिकं तन्वतो-रेकात्म्यप्रतिरोधविस्मृतिजुषोरेकान्तरागाक्तयोः।। किचिन्नैव रहस्यमस्ति तु वपुस्तादात्म्यसंरोधकम्, दृष्ट्वा येऽनुभवन्ति तत्समरसं तेऽप्यत्र लोकोचराः ॥१८३७ ॥ विनोंदैः काव्यानां कचिदपि तथाऽन्योक्तिकथया, पहेल्या नर्मोक्त्या क्वचिदुपमया धीरललितेः । प्रकारैः पात्राणां वचिदपि च साहित्यसुधिया, ममैवं व्यासङ्गे झटिति सुखिनो यान्ति दिवसा: ॥१८३८॥ " न रामवारित्रं त्यजति न गुणः सागरवरः, द्वयों पुण्यं न श्लथयति मनः पुण्यजन ! किम् । कदा दोषोत्याने प्रभवति जनो यन्त्र सहसे, हृता वैदेही नो तव पुरि चिरं स्थास्यति सखे !" ॥ १८३९ ॥
南杰内内内的内内内向内内内向南流流向
For Private And Personlige Only