SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Acharya hisagarsun Gyaan भीतरंगवती । 14 बेष्ठिन्या हृदयात्वात्पुत्र्याश्च प्रेमवन्धनात् । रोदनस्य च दुःखस्य मर्यादा नाऽभवत्सखि ! पुनस्त्वदीयतातं सा विनयेन समन्विता । प्रार्थयन्ती जगादेति प्रेम्णा मधुरया गिरा ॥१७९८॥ शुद्धाचारस्प मान्यस्य देहिनोऽपि ध्रुवं सदा । वियोगो वा कलंको वा, पुत्र्या दुःखद्वयं भवेत् ॥ १८९९॥ पुत्रीकुलद्वयसुसन्धिकरी प्रसिद्धा, भाग्यावयोः सुखमथोऽसुखमन्यथा स्यात् । पुत्रीमतां तु विरहः सुसहः सुखाय, लोकापवाद इति सत्यविदा निरूप्प ॥१८००॥ एतत्सर्व पुरोपातकर्मणा जायते खलु । देवाधीनमिदं सर्व जगविपरिवर्तते ॥१८०१॥ जगदिदमपि सर्व चाल्यतेऽचिन्स्यशक्त्या, असममिह पराभूति गता शानिनोऽपि । कृतिकुशलतमा हीह प्रजीवन्ति जीवाः, फलवितरणकार्येऽचिन्त्यशक्तिः समर्था ॥१८०२॥ इच्छयाऽनिच्छया वापि प्रारब्धवगो नरः । सुखं दुःखं च भुक्ते हि करण्डस्थ इवोरगः इह जगतिसमये नास्ति कश्चित्स्वतन्त्रः, अनधिगतगतित्रास्ति कश्चिनियन्ता । गुण इति गुरुदोषो वा न कस्मै च देयो, निजहृदयसमत्वेनाऽऽशु शान्तिर्विघेयाः ॥१८०४ ॥ तस्मादकार्यकत्र्यास्तु तस्या दोष न चिन्तय । यतस्तामनयदेवं कुटिलं कुपथं बलात् ॥१८०५॥ वार्तायाः स्मरणेनैव निश्चितं पूर्वजन्मनः । संचितस्याऽतिरूढस्य फलं लब्धं हि कर्मणः ॥ १८०६॥ दैवप्रेरितया भुक्त-दुःखापाचापराधिता । अल्पीयसी हि मन्तव्या नात्र क्रोधस्य कारणम् ॥१८०७॥ For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy