SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कस्यापि जातुचिन्नेवा-भवदीदृङ् महोत्सवः । अविच्छिन्नो यतोऽनेन महानन्दो जनेऽजनि आवयोर्वन्धवः सर्वे मित्रभावमुपागताः समसुखत्वं हि भेजिरेऽनन्यभावतः मद्भर्ता सद्गृहस्थानामुचितं व्रतपश्चकम्। जग्राह भवपाथोधि-तारणे सुतरण्डकम् वीतरागगिरं नित्यं चिन्तयन्नमृतोपमम् । जीवनं यापयामास धर्मेणैव समाहितः पूर्वोक्तेन प्रकारेण मयाऽप्याचामलकानि च । अष्टोत्तरशतं पूर्णां चक्रिरे विधिपूर्वकम् यतोऽनेन तपश्चर्या - विधानेन समं भुवि । यथेप्सितप्रदं नान्यद्व्रतं श्रेष्ठं विलोक्यते " तपसा जायते सिद्धिः परमार्थविधायिनी । विना तेन जनिर्लोके, निन्दनीयतम मिता " अथाई सार्द्धमेतेन कर्तुमानन्दमन्वहम् । अति शुद्धचित्तन विशुद्धतरमानसा वृक्षवल्लीचयाकीर्ण नानापक्षिखाकुलम् । वापीपद्मवनैर्व्याप्तमुद्यानमतिसुन्दरम् तत्र सिद्धस्थपतिभीरचितं रम्यमुद्भटम् । आदिनाथजिनेन्द्रस्य मन्दिरं जितमन्दरम् तस्मिन् सिंहासने श्रेष्ठमणिमाणिक्यमौक्तिकैः । कृता कलाविदा चित्तहारिणी प्रतिमाऽस्ति च विविधसुगुणभावान् सर्वदोल्लासयन्ती, विषयकटुकषायान् सर्वथोन्मूजयन्ती । प्रशमरसममन्दस्यन्दनेन स्रवन्ती, जिनपरिवृढमूर्त्तिमंगलं मङ्गलानाम्, १२ For Private And Personal Use Only ।। १७१५ ।। ॥ १७१६ ॥ ॥ १७१७ ॥ ॥ १७१८ ॥ ।। १७१९ ।। ।। १७२० ॥ ।। १७२१ ।। ॥। १७२२ ।। ॥ १७२३ ॥ ॥ १७२४ ॥ ।। १७२५ ।। ॥ १७२६ ॥ Acharya Shri Kassagarsuri Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy