SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Achana S agen Gyarmande KOSHEEXXXXXXXXXXXREKKERER समुत्पन्ने प्रमोदेऽपि मुक्तये गाढबन्धनात् । उपवासः कुतोऽस्माभिः सर्वथाऽऽहारवर्जितः ॥१३७५॥ ततो जिनेश्वरं स्मृत्वा शुद्धभावेन चेतसा । प्रत्याख्यानं त्रिधा चक्रेऽस्माभिः कष्टजिहासुमिः ॥१३७६॥ अथ तेन निषादेन मांसाऽऽहारो रसप्रदः । आनीय स्थापितोऽस्माकं मुखाग्रे शुद्धभावतः ॥ १३७७॥ "प्रवासस्याऽतिवैषम्पाद् भोजनं कुरुतं मुदा" । इत्युक्ते भुञ्जावहे नैत-भदक्ष्यं जिनशासने ॥१३७८॥ "मांसे का शुचिता?" तदुक्तिरपि यज्जिहावतां नोचिता, नासा संकुचिता वमन्ति सुधियः केचिदू घृणोदश्चिता । प्राग्जन्मोपचिताः समीक्ष्य यमिमं नष्टाः शुभाः संचिताः, हायूयं कुगुरुप्रलापपतिता वै वञ्चिता वञ्चिताः ॥ १३७९ ॥ "पूर्व मांस चखाद, संप्रति ततोऽहं भक्षये भक्षये, मांसस्येति हि मांसता मनुमहाराजस्मृतो संस्मृता मांसास्वादनजं फलं तु कटुकं श्वश्रादिपातोन्मुखं, ज्ञात्वैवं भविका ? यतध्वमनिशं रेण तद्वर्जने ॥१३८० ॥ प्राणिप्राणविधातनादपि विना मांसः कचिल्लम्यते, तत्प्राणव्यपरोपणं भवति, तद्धिसा बुधैः संस्मृता दारिद्यादिविधानबद्धकटिका हिंसा हिता न क्वचित, सौख्याध्या यदि तद्विवेकविधिना सा त्यज्यतां त्यज्यताम् ॥१३८१॥ निषादचित्ते करुणार्द्रभावाः प्रादुर्बभूवुः परमार्थपूर्णाः। सत्संगतो दुर्जनदुष्टवृत्तिः, संस्कारितां धारयते कदाचित् ॥१३८२॥ कस्तूरिकायाः परमं सुगन्धं मुदा वहन गन्धवहो दिगते। प्रशस्पते मानवदेववन्दर्गुणो हि लोके गुणिनां गुणाय ॥१३८३॥ "रक्षकाऽनुकम्पया पल्लीतो निर्गमनम्," PLETTEXERRRRRRRRRRRRIERE For PvAnd Person
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy