________________
Acharya Shri Kasagarten Gyaan
श्रीवरंगवती
कथा |पू२॥
BEEEEEXXXRO
चक्रवाकभवे पाहदवीरविहारिणो । प्रभूतानन्दमग्नौ चाऽ-भवाव दम्पती पुरा
॥१३६२॥ विकसत्पनकासारे कुञ्जः स्नातुमागतः । व्याधेन क्षिप्तवाणा तं हन्तुं मेऽनाशयत्पतिम्
॥१३६३ ॥ ततोऽतिदुःखिताऽइन्तु तं विना स्थातुमक्षमा । मृता च वत्सपुर्यां द्वौ ततो जातो नृजन्मनि ॥१३६४॥ ततश्चित्रसहायेन प्रत्यभिज्ञानमावयोः । विवाह: प्रार्थितः किन्तु पित्रा नाङ्गी कुतं मम
॥१३६५॥ ततो मया सारसिका प्रेषिता तस्य सविधौ । पलाप नावमारुह्य गंगातीरे च पन्धनम् ॥ १३६६॥ इतिवृत्तान्तमाख्यातं मया सर्व यथास्थितम् । एकाग्रमनसाऽऽश्चर्य-पूर्वकं प्रीतिमान्परम्
॥ १३६७॥ तत्सर्वे श्रुतवान् तत्र काष्ठस्थः स च रक्षकः । श्रुत्वैतत्स निषादोऽपि बभूव कृपयान्वितः
॥१३६८॥ मम नाथस्य बन्धांश्च शिथिलान्कर्तुमभ्यगात् । कारागृहस्थनार्यस्तु तर्जितास्तेन निर्दयम्
॥१३६९।। मेघनादेन संभीता हरिण्य इत्र दुःखिता। परस्परं वियुज्यता अनश्यस्वस्तलोचनाः
गतासु तासु सर्वासु जगाद मत्पति शनैः। इदानीं ते मयं नास्ति चिन्तया वर्जितो भव !
॥१३७१ ॥ मृत्युतो मोचयिष्यामि युवां कष्टं श्रयन्नपि । उपायं कमपि प्रायश्चिन्तयिष्ये भवत्कृते
॥ १३७२ ॥ निजानुभूतौ यदि दुःखमस्ति भविष्यति द्राक् तदलं परेषाम् । न तत्प्रकर्तव्यमिह स्वदेतो-र्दुष्कार्यमेतन्मनसो मतं न" ॥१३७३॥ एतद् वचनमाकण्ये दयापूर्ण विनिर्गता । निधनोत्पन्नभीतिस्तु सर्वथाऽङ्गविशोषिणी
॥१३७४॥
For Private And Personale Only